पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० पटलः] गोपीनाथभट्टकृतज्योत्याव्याख्यासमेतम् । ८७१

आधवनीयं पूतभृत्यवनीय दशाभिः कलशं मृष्ट्वा न्युञ्जति ।

कलश आधवनीयाख्यस्तं दशाभिः पवित्रस्य दशाभिम॒ष्वा प्रोक्ष्य न्युजति न्युनं करोतीत्यर्थः । दशाभिस्तं मृष्ट्वा न्युन्नतीति परामर्शेनैवाऽऽधवनीयग्रहणे सिद्धे कलश- वचनं पवमानग्रहान्कलशानित्यत्रत्यबहुवचनान्तकलशशब्देनेतस्योरपि संप्रत्ययो यथा स्यादित्येतदर्थम् ।

होता ब्रह्मोद्गाता यजमानः सदस्यश्चेति मध्यतः कारिणो मैत्रावरुणो ब्राह्मणाच्छंसी पोता नेष्टाऽच्छावाक आग्नीध्रश्च होत्रकाः।

मध्यतः कारिण इति आत्मनोऽधिप्रभृतिषु ऋत्विक्षु गमनागमनयोः प्राधान्याम्म- ध्येऽन्तरा कतुं शीलं येषां ते मध्यतःकारिण इत्यर्थः । प्रधानानां मध्ये निवेशो गुण- भूतानां पार्श्वत इति लोकसिद्धमेव । अथ वा मैत्रावरुणादिहोत्रकं मध्यतः कास्मिा चमसाध्वर्यवो वषट्कृतानुवषट्कृताञ्जहुतेत्यत्रैव संप्रत्ययार्था मध्यतःकारिसंज्ञा । होत्र- काणां चमसाध्वर्यवः सकृत्सकृद्धत्वेत्यादौ संव्यवहारार्थी होत्रका इति संज्ञा ।

उभये चमसिनो भवन्ति सर्वेषां प्रतिपुरुषं चमसाध्वर्यवः ॥ १६ ॥

इति हिरण्यकेशिसूत्रेऽष्टमप्रश्ने षष्ठः पटलः ।

उपये मध्यतःकारिणो होत्रकाश्चेत्यर्थः । सर्वेषां चमसिनां प्रतिपुरुष पुरुष पुरुष- प्रतीति प्रतिपुरुषं, प्रतिपुरुषमकैकश्चमसाध्वर्युवमेकादश चमसाध्वयंवो मवन्तीत्यर्थः । सदस्याभावपक्षे दशैव चमसाध्वर्यको भवन्ति चमतस्यैवाभावात् । द्वाभ्यां हस्ताम्या घमसद्वयहोमस्य संमवात्पञ्चभिरेव चमसाध्वर्युभिः सदस्यपक्षे षभिरपि कार्यसंमवात्प. चवट्सख्याव्यावर्तनाथं प्रतिपुरुष चमसाध्वर्थव इति वचनम् । अस्ति चात्र शाखान्त- श्रुतिः- मा हौषीदेक एव. द्वाभ्यां हस्ताभ्यां द्वौ चमसाविति । नैमिनिरपि उत्पत्तौ तु बहुत्वश्रुतेरिति, दशत्व लिङ्गदर्शनादिति सूत्राभ्याममुमर्थमाहू । अर्थस्त्वमे पक्ष्यते । • इत्योकोपाहश्रीमदग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखया- जिद्विषाहस्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीनाध. दीक्षितविरचितायां श्रीमद्भगवत्सत्याषाढहिरण्यकेशिसू- त्राम्बुधिगतनिगूढार्यरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तावष्टमः- श्नस्य षष्ठः पटलः ॥६॥