८७२ सत्यापाढविरचितं श्रौतसूत्र- [ (अष्टमप्रभे-
8.7 अथाऽष्टमप्रश्ने सप्तमः पटलः ।
उन्नीयमानेभ्योऽनुब्रूहि होतुश्चमसमनून्नयध्वमुभयतः शुक्रान्कुरुध्वमच्छावाकस्य चमसाध्वर्यो मा त्वमुन्नेष्ठाः प्रतिप्रस्थातः प्रोक्षिताप्रोक्षिताञ्छकलानुपकल्पयोन्नेतः सोमं प्रभावयेति संप्रेष्यति ।
उन्नीयमानेभ्योऽनुव्हीत्ययं प्रेषः प्रशास्तारं प्रत्येव । हौत्रशास्त्रानुरोधात् । उनीयगा- नेम्य इति घमसाना विशेषणम् | तादर्थे चतुर्थी । उन्नीयमानेभ्य इति विशेषणादुन्न- पननिमित्तकोऽयं श्रेषः । चनसोन्नयननिमित्तमुन्नीयमानसूक्तं ब्रूहीत्यर्थः । होतुश्चमस- मनन्नयध्वं हे ब्रह्मादिचमसाध्वर्यव उन्नेतृसहायभूता होतृवमप्समुन्नेतृसहायभूततदीयचम- साऽध्वर्युणोन्नीतमनु पश्चात्स्व स्वं चमसमुन्नयध्वमित्यर्थः । ब्रह्मोद्गाता यजमानः सदस्यो मैत्रावरुणो ब्राह्मणाच्छंसी पोता नेष्टाऽऽग्नीध्र इत्येवं क्रमोऽन्न । उन्नयने विशेषमाह- उभयतःशुक्रान्कुरुध्वमिति । उभयत आद्यन्तयोः शुक्रो येषु त उभयतःशुक्रा एतादृशा- कुरुध्वामिति । शुक्रो द्रोणकलशस्थः सोमः। अच्छावाकस्थाच्छावाकसंवन्धिचमसा- ध्वयों तच्चमसं वं मोनेष्टाः । मानिषेधे । अच्छावाकचमोन्नयन मा कुर्वित्यर्थः । प्रोक्षितौ चाप्रोक्षितौ च प्रोक्षिताप्रोक्षितानेतादृशाशकलान्यज्ञियवृक्षशकलान्पिधानोप. यमनसमर्थानुप समीपे कल्पय । उन्नतः सोमं प्रभावय प्रातःसवनपर्याप्तमेकधनामिश्र, णेन कुर्विति प्रैपार्थः ।
होतृचमसमुख्यान्दश चमसानुन्नयत्यन्यानच्छावाकचमसात् ।
होतृचमसो मुख्यो येषां ते होतृचमसमुख्यास्तान् । होतृचमसमनूनयध्वमित्यत्रत्यानु- शब्दार्थोऽनेन प्रदर्शितो भवति । होत चमसं प्रथममुन्नीयानन्तरमितरान्दश चमसानुन्न. यति सर्वत्रेत्यर्थः । दशेति सदस्यपक्षे । अत्र दशेत्यनेन परिसंख्यानात्कस्य चमसस्यो- नयनं वर्जनीयमित्याकाङ्क्षायामन्यानच्छावाकचमसादिति । अच्छावाकचमतादन्यानु- नयति प्रातःसवनेच्छावाकचमसं नोन्नयतीत्यर्थः । अच्छावाकस्प चमसाध्वयों मा स्वमुन्नेष्ठा इत्यस्यार्थोऽनेन दर्शितो भवति ।
परिप्लवयोन्नेता द्रोणकलशादुपस्तीर्य पूतभृत उन्नीय द्रोणकलशादभिघारयति ।
उभयतःशुकाम्कुरुध्वमित्यस्यार्थोऽनेन दर्शितो भवति । आश्विनग्रहणवदुपस्तरणो- नयनाभिधारणानीत्येव वक्तव्ये पुनः कृत्स्नं वचनं काण्डानुसमय एवात्र नियत इति-