पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५७ ५५०पटल:]. गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । पात्रमित्यध्याहारो योग्यतया । चक्षा म इत्यत्रापि वर्चेदा वर्चसे पवस्वेत्येव । वर्षोदा वर्चसे पवस्वेति सर्वत्रानुषजनीति सूत्रे सर्वत्रेति पदेनात्राप्येकवचनपाठस्यैव प्रापणात् । द्रव्यपृथक्त्वान्मन्त्रावृत्तिः । चक्षुयामिति परस्परापेक्षं द्विवचनमस्मिन्कल्प दृष्टव्यम् । सूत्रस्वरससिद्धमिदं व्याख्यानम् । वक़दौ वर्चसे पवेथामिति श्रुत्युक्तो द्विवचनयुक्तः पाठोऽनेन विकल्पते । अस्मिन्कल्पे द्विवचनलिङ्गत्वात्सकृदेव मन्त्रः। वीर्याय मे वोंदा वर्चसे पवस्वेतिमन्त्रावृत्त्याऽतिग्राह्यान् । तेजसे में वर्षोंदा वर्चसे पवस्व । ओनसे में वक़दा वर्चसे पवस्व । वर्चसे में वक़दा वर्चसे पवस्वेति कमेणा- तियाझाणां त्रयाणामेते त्रयो मन्त्रा वीर्याय म इत्यनेन विकस्पिताः । एतैरितिवचन- मेकमन्त्रत्वनिरासार्थम् । अर्थादेव क्रमे सिद्धे यथारूपमितिवचनं वाजपेय ऐन्द्राति- ग्राह्यस्थानीयपश्चन्द्रातिंग्राह्येषु द्वितीयमन्त्रस्यैवाऽऽवृत्तिर्न त्वन्तिमस्यैवेतिप्रदर्शनार्थम् । अस्मच्छब्दादेशभूतान्म इति शब्दादनन्तरं वर्षोंदा वर्चसे पवस्वेत्ययमंशः सर्वत्र सर्वेषु मन्त्रेषु अनुपनति अनुषक्तो मवतीत्यर्थः ।

विष्णोर्जठरमसीति द्रोणकलशमिन्द्रस्य जठरमसीत्याधवनीयं विश्वेषां देवानां जठरमसीति पूतभृतं वर्चोदा मे वर्चसे पवस्वेति सर्वत्रानुषजति ।

सष्टम् ।

कोऽसि को नामेति सर्वꣳ राजानमविशेषेण ।

उपतिष्ठन्त इत्येव । तस्य त इदमुन्मृन इति मन्त्रान्तः । सर्वग्रहणप्रयोजन पूर्ववत् । न विद्यत ऐन्द्रवायवत्वादिधर्मभेदनिमित्तकावृत्तिरूपो ग्रहत्वकलशस्थत्वधर्मभेदनिमित्तः कावृत्तिरूपो वा विशेष उपस्थाने यस्मिन्मन्त्रे स मन्त्रोऽविशेषस्तेनेत्यर्थः । तेनेदं सिद्धं "भवति सकृदुक्तेनैव मन्त्रेण सर्वराज उपस्थानं न प्रत्येकधर्ममादाय मेदेनोपस्थानमिति । एतेन पूर्वस्मिन्सराजोपस्थान आवृत्तिरवगता भवति ।

बुभूषन्ब्रह्मवर्चसकाम आमयाव्यन्नाद्यकामोऽभिचरन्वाऽवेक्षेत ।

बुभूपनवेक्षेत ब्रह्मवर्चसकामोऽवेक्षत, आमयाव्यवेक्षत, अभिचरन्नवेक्षेनेति स्वशा- खागता एते कल्पाः । अन्नाद्यकामोऽवेक्षेनेति कल्पः शाखान्तरीयः । अत्र काम्यक- पप्रदर्शनात्पूर्वत्रोपस्थाने काम्यत्वं न । इदमित्येतस्य स्थाने तत्तत्कामोल्लेखः कार्य:- तस्य ते मूतिमुन्मने तस्य ते ब्रह्मवर्चसमुन्मने तस्य त आयुरुन्मने तस्य तेऽन्नाद्यमन्मृने तस्य तेऽमुष्य प्राणानुस्मृज इति । बौधायनोऽप्यन्नाद्यकामनां विना भूत्यादिकामनाप- युक्तमन्त्रविकारान्स्पष्टमेव प्रदर्शितवान् । कामाभावे स्वविकृतो मन्त्रः । अत्र काम- ...स.ग. छतई।