मन्त्रान्तः। १६ सत्याषाढविरचितं श्रौतसूत्र- [अष्टमप्रश्य- हानं नात्र । अवचनात् । प्रसप्स्यन्तः सदसि स्वस्थान प्रति उपवेशनार्थ गमनं प्रप्त. पण तत्करिष्यन्तः । अवकाशयन्तेऽर्थ प्रकाशयन्त इत्यवकाशा मन्त्राः । ग्रहाणामव- 1 काशा ग्रहावकाशा ग्रहाणामवकाशः प्रकाशो येष्विति वा । द्वौ समुद्रावित्यारम्य स्फ्यः सस्तिरित्यतःप्राग्ग्रहावकाश इति संज्ञा मन्त्राणां यॊणकलशप्रभृतीनुपस्थाय संप्रसन्ति समेताः सदः प्रविशन्तीत्यर्थः । सामान्यप्रतिज्ञेयम् । प्रसूप्स्यन्त इति वच- नात्सामातिरेकनिमित्तकोक्थ्यग्रहणे प्रतर्पणाभावाद्ग्रहावकाशोपस्थाननिवृत्तिः । बहु- वचनादतर्युप्रतिप्रस्थातृयजमाना आध्वर्यवेण विधानेनोपस्थानतर्पणे कुर्वन्ति । उन्नेतु- रघ्याध्वर्यवेण विधानेनोपस्थानसर्पणे । उपवेशनं सदस्यतस्यापि । सदस्यस्याप्येवमेव । नेष्ट्राग्नीधयोरुभयान्वितयोहरिणाऽऽध्वर्यवेण वा । प्रसृप्स्यन्त इत्यनेन ये ये प्रसर्पण- करिस्तेषामिदमुपस्थानं, तेन ब्रह्मणोऽपि प्रर्पणकर्तृत्वादुपस्थान, होत्रादीनामुद्रात्रा- दीनां च कर्म शाखानुसारेणेति यथायथं द्रष्टव्यम् ।
द्वौ समुद्राविति द्रोणकलशाधवनीयौ ।'
सकृदुक्तेन मन्त्रेण द्वौ युगपदुपतिष्ठन्त इत्यर्थः । सेतुनाऽतियन्त्यन्यमिति
द्वे द्रधसी इति पूतभृतम्
उपतिष्ठन्त इति शेषः । नार्या इति मन्त्रान्तः ।
परिभूरग्निमिति सर्वसोमम् ।
उपतिष्ठन्त इत्येव शेषः । तस्य त इदमुन्मून इति मन्त्रान्तः । सर्वश्चासौ सोमश्च सर्व- सोमस्तम् । अत्र सर्वशब्दः प्रकारकामाचष्टे सर्वान्नं भक्षयतीतिवत् । सर्वसोम इति द्रव्यैकत्वात्सकृन्मन्त्रमुक्त्वा सर्वस्य सोमायोपस्थानम् । सर्वग्रहणं ग्रहद्रोणकल- शाधवनीयपूतभृत्स्थसोमोपस्थानार्थम् ।
प्राणाय म इत्युपाꣳशुपात्रमपानाय म इत्यन्तर्यामं व्यानाय म इत्युपाꣳशुसवनं ग्रावाणं वाचे म इत्यैन्द्रवायवं दक्षक्रतुभ्यां म इति मैत्रावरुणं चक्षुर्भ्यां म इति शुक्रामन्थिनौ श्रोत्राय म इत्याश्विनमात्मने म इत्याग्रयणमङ्गेभ्यो म इत्युक्थ्यमायुषे म इति ध्रुवं वीर्याय म इत्यतिग्राह्याꣳस्तेजसे म ओजसे मे वर्चसे म इति वैतैर्यथारूपं वर्चोदा वर्चसे पवस्वेति सर्वत्रानुषजति ।। १३ ।।
समित्यस्यानन्तरमुपतिष्ठन्त इत्येव शेषः । अन्तर्यामशब्दे पात्रलक्षणा । हुतत्वाग्रहाय । आदिवृद्ध्यभावश्छान्दस इति वा । तेनान्तयाममिति रूपं भवति । प. 'द्महस्यति । आ ।