पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१० पटलः ] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । उपावर्तध्वमित्यनन्तरमितिशब्दाध्याहारः । अभिसर्प यजमानेतीत्येतदनन्तरं संप्रे- व्यतीत्यध्याहारः । अप वा स्तोत्रोपाकरणार्थः प्रैष एवायमुपावर्तध्वमित्येत- दन्त उद्गातृणाम् । अमितर्प यजमानेति यनमानं प्रति प्रेषः । उपा- वर्तध्वं स्तवनायोप समीपमावर्तवं संमुखा भवतेत्यर्थः । उप समीप उपविष्टाः सन्तो महिप्पवमानमारमध्वमिति वाऽर्थः । हे यजमानाभि उद्भातॄणां संमुखं प्रणवोपगा- नार्थ सऽऽगच्छेत्यर्थः । एतेन ज्ञायतेऽन्वारम्भविसर्गोत्तरमपि यत्रान्वारम्भवितर्गः कृतस्तं यजमानः प्रैषपर्यन्तं तत्रैवोपविष्टो भवेदिति ।

सर्वान्पवमानानेवम् ।

सर्वान्पवमानानेवं वाहि कर्तेत्यादिनाऽभिसर्प यजमानेत्यन्तेन प्रकारेणेत्यर्थः । एतेनेदं ज्ञायत इतरेषु स्तोत्रेषु यनमानेन स्वायतन आसीनेनैवोपगानं कर्तव्यमिति ।

उपावर्तध्वमिति बर्हिर्भ्यामितराणि स्तोत्राणि ।

उपाध्यमित्यन्तप्रदर्शनम् । तेन वायहि कर्तेत्यादि सर्व भवति । एतेनामित पनमानेत्येतद्यावृत्तिः सिध्यति । अथ वोपावर्तध्वमित्येतावतोपाकरणम् । अस्मिन्पक्षे वायुर्हि कर्तेत्यम्यासज्य॑सार्न वागसपेंन्द्रः सहोऽसत्येतदन्तस्यांशस्य च निवृत्तिः । भभिसर्प यजमानेत्यस्य निवृत्तिस्त्वत्राप्यस्त्येव । बहियामिति बहिर्मुष्टिवाधनार्थम् । इतराणि भाज्यानि पृष्ठानि अग्निष्टोमलामषोडश्यादीनि च स्तोत्राणि उपाकरोतीति शेषः । बहिष्पवमानस्तवन उद्गातृभिः क्रियमाण उपगातृमिरुपगानं कार्यम् । तथा च श्रुतिः-नाध्वर्युरुपगायेद्वापार्यो वा अध्वर्युदध्वर्युरुपगायेदुद्गात्रे वाच५ संप्रय- च्छेनुपदासुकाऽस्य वाक्स्यादिति । भवोरुपगाननिषेधादुपगानमस्ति तच ऋति- कर्तृकमेवेति । स्पष्टमेतत्सर्वमुपगातृसंख्यां चाऽऽहाऽऽपस्तम्ब:--स्तूयमानं यजमान उपगायति चत्वारोऽवरार्या उपगातारो नाध्वर्युरिति । अस्याः-स्तूयमानं बहि- पवमानं यजमानस्तावदुपगायति ऋत्विजोऽपि चतुरवरा उपगायन्तीति । ऋत्विना मुंपगातृत्वेऽवर्योरप्यविशेषादुपगानकर्तृत्वप्राप्तौ नावरिति निषेधः । उपगानप्रका. स्मयाह भरद्वाजः-यजमानपञ्चमा उपगायन्ति हो इत्य॒त्विन उपगायन्स्योमिति यजमान इति । तृतीयाध्याये सप्तमे पादे जैमिनिरपि उपगाश्च लिङ्गदर्शनादिति नाध्वर्युरुपगायेदिति निषेधः प्राप्त्यभावेऽनुपपन्न इत्यध्वर्युभिन्नानामुपगातृत्वलिङ्गदर्श नादिति सूत्रार्थः । चशब्दोऽन्ये न भान्तीत्यस्यार्थस्यानुकर्षणार्थः । के चन च्छन्दोगा वैपरीत्येनाऽऽह) इति यजमान ओमित्य॒त्विज इति । सूत्रान्तरे नापर्यव उपगायेयुरिति निषेधादध्वर्युवर्गव्यतिरिक्ता उपगातारः । उत्तरमीमांसायां तु गुणोपसंहारपाद ऋत्विज उपगायन्तीति वचनमेवोदाहृतम् । उपगःनप्रकारश्छन्दोगसूत्रे-अपरेणोद्भातृश्यवरार्धा उपगातारश्चतुरवराने के षट्परायो(व)व एनाक्षरेणोपगायेयुहाँ इति मन्दस्वरेण

  • भधिमार्थानुरोधेनोपगातार इत्यत्रोपगा इत्यपेक्षितम् ।

- 1