पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

12 ८५० सत्याषाढविरचितं श्रौतसूत्र- [(अष्टमप्र- संततः सहवाच्येवारमन्त इति । अस्यार्थः-उद्गातृनपरेणोद्गातूणा पश्चिमे प्रदेशे समीप एषा त्रयोऽवरोऽों भागो येषां ते व्यवरार्धाः । उपगा उपगातारः। एक आचार्या उप- गांश्चतुरवराधान्मन्यन्ते । षट्परार्धा इत्यनेन बहुत्वसंख्यावधिः प्रदश्यते' । ते यदि म्यवरार्धाश्चतुरवरार्धा वा षट्परार्धास्त इत्यर्थः । एतेन वक्ष्यमाणेनाक्षरेण । तदक्षर- माह हो इति । मन्द्रस्वरेण संततमविच्छिन्नं हो इत्यक्षरेणोपगायेयुः । सहवाच्यानि निधनानि तेष्वारमन्तः । अन्तर्निधनेष्वपि आरमणम् । एतेनाक्षरेण प्रस्तावादिभक्त्य- न्तरालानि च्छान्दयन्त उपगायेयुरिति निष्कृष्टोऽर्थः । ओमिति यजमानस्योपगान- मप्येवमेव । निधनात्पूर्व नोपगानं विच्छेदाभावात् । एवं सर्वस्तोत्रेषु ।

स्तूयमानं बहिष्पवमानं ब्राह्मणाः समभिसर्पन्ति द्वेष्यं परिबाधन्ते ।। १२ ।।

इति हिरण्यकेशिसूत्रेऽष्टमप्रश्ने चतुर्थः पटलः ।


स्तूपमा बहिष्पवमानं सन्तं ब्राह्मणाः सं संगम्याभिमुखाः सर्पन्ति बहिष्पवमान । गातृसमीप उपविशन्तीत्यर्थः । इदं सर्पणं पावित्र्याय । तथा च श्रुतिः-तस्मादेव विदुवा बहिष्पवमान उपसद्यः पवित्रं वै बहिणवमान आत्मानमेन पश्यत इति । स्तूयमानमिति वर्तमानशान वा समकालिकत्व बोध्यते । तेन स्तवनसमकालं गातृसमीप .. उपवेशनमिति सिद्धं भवति । तच्च प्रथमपि प्रथमप्रस्तावानन्तरं वा उपस्थितत्वात् । तावस्पर्यन्तं तु समीप उपवेशनाभावेऽपि श्रवणं यत्रोपविष्टानां मायेत तावत्येव दूर :- उपवेशनं न तु श्रवणं यत्रोपविष्टानां न जायेत तावति दूरे । अन्यथा कृत्स्नबहिष्प- पमानश्रवणजन्यं श्रुतिबोधित पाविश्यरूपं फर्क न स्यादिति द्रष्टव्यम् । उद्गातृमिनि- नौतनोदकेन सर्वपापक्षयार्थ मार्जनं कुर्युस्तदश्वमेधावभृयतुल्यमित्यभियुक्ताः केचन प्राहुः । केवलं पापक्षपार्थत्वमेति न कि तु द्वेष्यपरिवाधनमपि फलमित्याह द्वेष्यं । परिसाधन्ते द्वेष्यः शत्रुस्तस्य परिबाधनं पारिपीडनम् । इत्योकोपाहश्रीमदनिष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखया- जिविषाइनानियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूनगोपीनाय- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकेशिसू- जाम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तावष्टपम- नस्य चतुर्थः पटलः ॥ ४॥ +स. ते । य" ३ क. ख. पदेया'।