पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विः पटलः] गोपीनाथभट्टकृतज्योत्याव्याख्यासमेतम् । ११ मन्त्रणनिवृत्त्यर्थम् । यावन्तमेकमहायाऽऽप्तं मन्यते प्रत्युपनोतरं निदधातीत्यवश्य वक्तव्यमेव । अन्यथैकग्रहपर्याप्तग्रहणस्यापि निवृत्तिः स्यात् । तथा च काम्यं पूर्ण- महणमपि कदाचित्स्यात्तद्वारणायेदमवश्यं वक्तव्यमेव । प्रत्युपन तरं निदधातीत्यपि मध्यपतितत्वादवश्यं वक्तव्यमेव । अन्यथैतस्यापि निवृत्तिः स्यात् । राजानमपादत्त इत्यारभ्य वसतीवरीभिरुपसृज्यत्यन्तस्य पुनर्वचनं सप्रयोजनमेव । सकृदभिषुतस्य प्राण्यापान्य प्राणावामदेव्यं मनसा गायमानो गृह्णातीत्यत्र सकृदभिषुतस्येत्यस्य गृह्णातीत्यत्रैवान्वयः । सति निमित्त आ मा स्कान्द्रप्सश्वेत्येतावमिषवोत्तरं करोति । सकृदभिषुतस्येति द्वितीया षष्ठी । षष्ठयन्तपाठो ब्राह्मणाभिप्रायेण । षष्ठीस्वीकारे प्रकृतेऽवयवरूपार्थकत्वं विनाऽन्यस्यासमवेनाभिषुतसोमैकदेशस्यैवैतादृशार्थेन ग्रहण स्यात् , एकदेशस्योपयोगाभावेन त्याग एव स्यात्स च विरुध्येत् । अतो द्वितीया- थिकैव षष्ठी । सामिषुतस्येत्येवाऽऽपस्तम्बः । सकृदेकवारं प्राणान्प्राग्य यावच्चास पहिर्गमयित्वा प्राणानपान्य प्रत्याहृत्य कया न इति वामदेवेन दृष्टं साम वामदेव्यं, मनसेति वचनादोष्ठताल्वाविव्यापारो नियते । यद्यपि तुचे गीतं साम तथाऽपि सामप्रतिनिधित्वेन तद्योनिभूताया एकत्या एव ऋचो - ग्रहणस्यानिमसूत्रे वक्ष्यमाण- स्वादेकर्चमेवेदं सामेति गम्यते । यद्यपि अत्रानवानता स्पष्टतया नोक्ता तथाऽपि अन- वानं गृह्णातीति अंशुप्रकरणे श्रुताबुतत्वाद्ययनवानं न शक्नुयाहीतुमित्यग्रिमवचने- नोक्तप्रायत्वाचानवानमेवांशोहणम् । अनवानमनुच्छ्रसन् । यद्यपि सामवेदेनोद्गातेति उद्गातुः सामगानं तथाऽपि ग्रहग्रहणस्याध्वर्युकर्तृकत्वाद्गायमान इति शानचा गायन. अहग्रहणयोः समान कालिकत्वश्रवणाद्वस्तीवरीमिरुपसुन्येति समानकर्तकत्वनवणाचा- ध्वयोरव गानम् । नचांशग्रहाहणाङ्गत्वाद्राजोपादानादिवसतीवरीमिरुपसृज्येत्येतदन्त- मप्युद्गातुरेवास्विति वाच्यम् । यत्र मानः संबन्धस्तत्कर्मोद्गातृकर्तृकमित्यस्य नियमस्य परिमाणासामकरणकस्तुतिविधायके नवनिरध्वर्युरुद्वायतीति वाक्ये व्यभिचारदर्शनेन यदध्वर्युर श्शं गृह्णन्नार्धयेदुमाभ्यां नयेताध्वर्यवे च यनमानाय च यदर्धयेदुभाभ्यामृ- ध्येतानवानं गृह्णाति सेवास्पर्धिरिति श्रुतितः स्पष्टतयाऽध्वर्यारवांशुग्रहणकर्तृत्वावग- मेन च केवलसामसंबन्धेन सर्वस्मिन्नंशुग्रग्रहणकर्मणि अश्रुताप्रसिद्धोद्गातृकर्तृकत्वक रूपनाया अत्यन्ताप्रयोजकत्वात् ।

कया नश्चित्र आभुवदिति वा वामदेव्यस्यर्चा ।

कया नश्चित्र आभुवदिति वामदेव्यस्य वेत्यन्वयः । वामदेव्यस्य कया न इति. ऋगुत्पन्नस्यैवेतरवामदेव्यप्रकृतित्वाद्ग्रहणे सिद्धे कया नश्चित्र आभुवदिति प्रतीकग्रहणं 1