८१२ सत्याषाढविरचितं श्रौतसूत्र- [(अष्टमप्र- वामदेव्यसाम्नेि तयोन्यां वा तिसृष्वृक्षु यस्याः कस्याश्चिदेकस्या अनियमेन ग्रहणं स्यात्तन्मा भूर्तिक त्वेतस्या एव ग्रहणं यथा स्यादित्येतदर्थम् । अत्र मनसा गायमान इति शानचो वर्तमानायकत्वात्तत्समकालमुषयामगृहीतोऽसीत्यस्योचारणस्योपांशुस्वरेण मनसा वाऽप्यसंभवनादेव निवृत्तिः ।
यद्यनवानं न शक्नुयाद्गृहीतुमा नः प्राण एतु परावत इति हिरण्यꣳ शतमानमभिन्यन्य वरे दत्ते गृह्णाति ।
यहीत्यनेन व्याननायपिधानान्तस्य नैमित्तिकत्वं प्रदश्यते । अनवानं न शक्नुया- द्ग्रहीतुमित्यनेन निमित्त प्रदश्यते । न शक्नुयान समर्थो भवेदित्यर्थः । शतं मानानि पत्र तच्छतमानम् । मानस्वरूपं तु स्मृती- द्विगुरूनं कथितं मानमेकगुजमथापि वा । इति । शक्ताशक्तत्वेनानयोर्व्यवस्था । मीयतेऽनेनेति मानमिति व्युत्पत्त्या यत्रसपिवटवी- मादिपरोऽपि मानशब्दः । अयं पक्षोऽत्यन्तानाढ्यस्य । एतादृशं हिरण्यं सुवर्ण सदभि तदुपरि व्यननं श्वासस्य निर्गमनप्रत्याहरणयोर्भध्यावस्थया धारणम् । अभिव्य. ननोत्तरं वरे दत्ते, यनमा त्येव शेषः । तस्यैव दानेऽधिकारात् । उक्तं चैतत्सूत्र. कृता दर्शपूर्णमासयाजमानसूत्रे-द्रव्यप्रकल्पतं यजमानस्य दक्षिणादान ब्रह्मचर्य जपाश्चेति । आश्वलायनेनाप्यु तं दरातीति य नमानमिति । कात्यायनेनाप्युक्तं दान वाचनान्नारम्भरतरगत्रतप्रमाणेषु यजमानं प्रीयादिति । तृतीयाध्यायेऽष्टमे पारे अमिनिनाऽप्यु स्वामिक परिक्रयः कर्मगतदर्थत्वात् , वचनादितरेषां स्पादितिम्- त्राभ्याम् । परिकयो दक्षिगदानादिका ऋत्विनां स स्वामिनो यनमानस्य कर्म साङ्गस्य कर्मणस्त दर्थत्वात्स्वाम्यर्थत्वात् । परिक्रयस्य स्वानिककत्वाभावेऽङ्गानां तस्कर्तृकत्वानुपपत्तेरिति प्रथमसूत्रार्थः । इतरेप, मृत्विनां तु वचनात्स्यात्, इतरकत के दानं तु वचनाद्भवेत् । अनड्वान्होत्रा देय इत्यादिकमुदाहरणं ज्ञेयं स्वकीय द्रव्य होत्रा दापनीयं वचनादिति हृदयमिति द्वितीयसूत्रार्थः । वरस्वरूपमापस्तम्बः-गा वरोऽतिवरोऽन्यो धेनुर्वरोऽतिवरोऽन्योऽनजान्वरोऽतिरोऽन्य इति । त्रीवरान्वयादि- त्यतपयुज्यते । सूत्रान्तरें गौवरो बाम गस्य ग्रामो राजन्यस्याना(ना) वैश्यस्येति । प्रकारान्तरमपि स्मृती- वरोक्तो गां विजानीयाचतुर्वर्षीमरोगिणीम् । दक्षिणानां वरिष्ठो यो वरं तमंपरेऽब्रुवन् ॥ इति । दक्षिणानां दक्षिणात्वेन दीयमाना हिरण्यादयस्तेषां मध्ये यो वरिष्ठो बहुमूश्यत्वेन श्रेष्ठस्तं पदार्थ वरशब्दवाच्यमपर आचार्या अब्रुवन्नित्यर्थः । गुञ्जामात्रं सुवर्ण वर इति पैजयः । एतेषां पक्षाणां शक्ताशक्तत्वेन व्यवस्था । गृह्णाति अंशुपिति शेषः । ,