पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्र- [(अष्टमप्र- सवनमुखीयचमसयोझोद्गातृयजमानचमसेष्वतिमाहोषु चाध्वयोः सत्यप्यभिषवे होमा- भावाद्भशनिवृत्तिः । एवं प्रतिप्रस्थातृनेष्टुनेतृणामप्येतेषु होगाभावादानिवृत्तिः । भदाम्यमहादौ तु सत्यपि होमेऽभिषामावान भक्षः । तथा चमसेषु चमसावणा- मित्यादि यथायथं द्रष्टव्यम् । तृतीयसवनसंबन्धिसवनमुखीयचमसे तु होमस्यापि सत्त्वाद्भवत्येव भक्षः ।

दधिग्रहस्याꣳशोरदाभ्यस्य च समानं पात्रम् ।

समानशब्दस्तुल्यार्थे न तु एकमित्यर्थ इति, तेन पात्रत्रयमेवेति । अमुमथै सूच-

यितुमेवासमासेन त्रयाणां निर्देशः । उक्कं चांश्वदाम्यपात्रतः पार्थक्यमापस्तम्बेन- उत्तरेऽसे दधिग्रहपात्रमौदुम्बरं चतुःसक्त्येवश्रूपमेवावदाम्ययोरिति । तत्राss- पस्तम्बमत एवं प्रयोगभेदः-दधिग्रहस्यैकं पात्रमंश्वदाम्ययोरेकमिति पात्रद्वयम् । भाचार्यमते दधिग्रहस्यैकमंशोरेकमदाम्यस्यैकमिति पात्रत्रयमित्येवं प्रयोगभेदः । आपस्तम्बमदे एदि सोयग्रहं गृह्णीयादेतदेव निभवेदिति सूत्रात्सोमग्रहपक्षे त्रयाणाम- प्येकमेव पात्रम् । आचार्यमते तु अत्रापि पारत्रित्वमेव ज्ञेयमिति त्रयाणां निर्देशः। तुस्यत्वं सजातीयत्वेन तच्च सजातीयत्वमौदुम्बरत्व चतुःस्त्रक्तित्वाभ्याम् । अंशोः पात्र दधिग्रहपात्रासमीप एव गयुनक्ति । एकमदाग्यस्य । ते. च दधिग्रहपात्रस्योत्तरतः पुरतो योदसंस्थे प्रासंस्थेल प्रयोज्ये । दधिग्रहत्येति सोमनहाज्यग्रहोपलक्षणम् । भाज्यग्रहपक्षे तत्पात्रस्य प्रतिपत्तिरग्नावनुषहरणं तद्धोमान्त एव । सोमग्रहपक्षे तु अवमुथ एक तस्य प्रतिपत्तिः सोपलिप्तस्यात् । वक्ष्यति चावभृथे यत्किचित्सोमलिप्त- मिति । दधिग्रहपात्रस्यापि असोमलितत्वाबौधायनापस्तम्बोक्तरीत्या प्रहरणमेव ।

अꣳशुना प्रचरति ।

अंशुनांऽशुसाध्येन कर्मणा प्रचरति अंशसाध्य कानुतिष्ठतीति यावत् । सामान्य प्रतिज्ञेयम् । इयं प्रतिज्ञा सूत्रान्तरोकपालिकत्वव्यावृत्त्यर्था । अयं चांशुग्रहो न सवनाङ्गं किं तु सोमाङ्गमेव । तेन प्रतिसदनं नाऽऽवृत्तिः । प्रदर्शयिष्यति चाऽऽचा- योऽभिषवादिमाध्यदिन सवनं तायत इत्यभिषवादिपदेन । जैमिनिरपि ग्रहेष्टकमौपा. झाक्यं सवनचितिशेषत्वादिति । औपानुवाक्यमनारम्याधतिम् ।

राजानमपादत्ते यावन्तमेकग्रहायाऽऽप्तं मन्यते प्रत्युपनह्येतरं निदधाति तमुपरे न्युप्य वसतीवरीभिरुपसृज्य सकृदभिषुतस्य प्राण्यापान्य प्राणान्वामदेव्यं मनसा गायमानो गृह्णाति ।

रामानमपादत्ते तमुपरे न्युप्य वसतीवरीमिरुपसृज्येत्येतद्वचनमवीवृधं व इत्यमि-

१ख, ग, सद्भाषाङ्क।