सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वि०पटलः] गोपीनाथमट्टकृतज्योत्याब्याख्यासमेतम् । ८०९. प्रशब्दासमीचीनं क्षालनं, प्रक्षाल्येत्यत्रान्तर्भावितो णिच् । तेन प्रक्षालन परिकर्मिक- र्तृकमिति सिद्धं भवति । बौधायनेन तु ऋतुपात्रयोः शुक्रपात्रस्य च प्रक्षालने प्रतिप्र- स्थातृकर्तृकतोक्ता सा वैतेष्वङ्गोकर्तव्या । आयतने सादनमध्वर्युकर्तृकमेव । यजुदे- नाध्वर्युरिति परिभाषासूत्रात् । आयतने स्वस्वस्थाने ।

सर्वसोमानामेष कल्पः ।

मान लीये पात्रं प्रक्षाल्याऽऽयतने सादयतीत्येष . सर्वसोमानां कल्पः । भवतीति शेषः । पूर्वत्रावरिवोपक्रान्तत्वाद[संबन्धिसोमानामेत्र कल्प इति स्यात्तन्मा मूर्तिक तु सोममक्षणकर्तृसर्वस्विक्संबन्धिसोमानामप्येष कल्पो यथा स्यादित्येतदर्थं सर्वग्रहणम् । सर्वेषां सोमाः सर्वसामास्तेषां सर्वसोमानामिति समासः । सोमानामिति बहुवचनं तत्त- इवतोद्देशेन गृहीतत्वेन भेदात् । सर्वत्रेत्येतावतैव सिद्धे गुरुभूतमूत्रकरणं सुराग्रहव्या- वृत्त्यर्थम् । तेन सुराग्रहे पात्रप्रक्षालनमायतने सादनं च न भवति । अथवा सर्वसोमा- नामेष कल्प इत्यस्यायमर्थः पूर्वेण द्वारेण सदः प्रविश्याण होतारं पुरस्तात्मत्या- सीनो नृचक्षसं स्वेत्यवेक्ष्य मन्द्राभिभूतिरिति पक्षयतीत्यादिरायतनसादनान्त एष कल्पः प्रकारः सर्वसामानां भवतीति । सोमभक्षणकर्तृसविसंबन्धित्वे कल्पस्य सिद्धेऽर्थात्त- तस्विकर्तृकताऽपि सिद्धा भवति ।

ग्रहेषु तु सहिरण्यता।

अत्र तुशब्दोऽवधारणार्थे । भवतीति शेषः । तेनेत्थं वाक्यं भवति ग्रहेष्वेव सहि- रण्यता भवतीति । या पूर्वत्र सहिरण्यता सामान्यत उक्का सा ग्रहेषु सोमग्रहपसे सोममेहेऽश्वदाम्यादिषु चैव नान्यत्र चमसेवित्यर्थः । तेन सहिरण्येन प्राङ्मुखस्तिष्ठन्नि- स्येतत्सूत्रोक्तं सहिरण्येनेत्यनेनांशेन प्रापितं हिरण्यश्रयणमात्रं चमसेषु न भवति । अन्यत्प्राङ्मुखस्तिष्ठन्नित्यादि तु चमसेष्वस्त्येवेति सिद्धं भवति । पूर्वसूत्रात्सर्वसोमाना- मित्यनुवर्तनीयमेव । तेन सुराग्रहेषु न सहिरण्यता ।

होमाभिषवाभ्यां च भक्षो नान्यतरेण कर्मणा ।

सर्वसामानामित्यनुवर्तत एव । चस्त्वर्थे । भक्षस्तु होमामिषवाभ्यामित्यन्वयः । मत. तीति शेषः । तथा च चमससाधारणता सिद्धा भवति । होमश्चाभिषवश्च होमाभिषवौं ताम्यां होमामिषवाभ्याम् । प्रत्येक निमित्तत्वं खण्डयितुं नान्यतरेण कर्मणेति । एते. नाध्वर्युप्रतिप्रस्थातृनेष्ट्रनेतृणां होमाभिषवाम्यां समुचिताभ्यामेव भक्षणं गम्यते नान्य- तरंगेति । अभिषुत्याऽऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्तीतिश्रुत्योमय- समानकर्तृकत्वेन भक्षणस्योक्तत्वादिति मावः । तेन प्रातःसवनमाध्यंदिनसवनसंबन्धिनोः १ ख. ग्रहांश्च ।