पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.७७५ १५०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । दण्डे मयूखो बुधैः कर्तव्य इत्यर्थः । । रेखे तिर्यम्भूते दण्डोपरि यस्य स द्विरेखो ब्राह्मणाच्छंसिन इत्यर्थः । खकं तीक्ष्णमय कुर्यात्तद्दण्डस्येत्यर्थः । अच्छावाकदण्डेs- जस्य च्छागस्य पदं कुर्यादित्यर्थः । एवं व्याख्यातं तद्भाष्ये । अथवा होतृचमसमार- म्याच्छावाकचमपर्यन्तमेकैकरेखावृद्धचा यावदशरेखं दण्डेष्वयेदिन्यपि तद्भाष्य- कृतोक्तम् । इदानीतनरभियुक्तैरेवमुक्तानि- ब्रह्मणश्चतुरश्रः स्याद्धोतुस्तु, परिमण्डलः । पृथ्वनो यजमानस्य व्यनिरुद्गातुरेव च ॥ प्रशास्तुरवतष्टः स्यादत्तष्टो ब्रह्मशंसिनः । पोतुरमे विशाखी स्यालेष्टुः स्यादक्षिणावृतः ।। अच्छावाकस्य सनावानाग्नीरस्य मयूखकः । सव्यावृतः सदस्यस्येत्येतच्चमसलक्षणम् ॥ इति । चस्त्रत्वादीनि ब्रह्मादिचमतदण्डानां क्रमेण विशेषणानि । चतुरश्रश्चतुष्कोणः । परिमण्डलो वर्तुलः । पृथु स्थूलमनं यस्य स पृथ्वनः । त्र्यनिस्त्रिकोणः । अवतष्टोऽध- स्तष्टः । उत्तष्ट ऊर्च तष्ठः । विशाखी, अग्रभागे शाखाद्वयवान् । दक्षिणावृतो दक्षि. ामागे तष्टः । अग्रभागे राना रेखा तद्वान् । मयूखस्तीक्ष्णानः । मयूखशब्दात्स्वार्षे कप्रत्ययः सव्यावृतो वायभागे तष्ठः । अत्र मूलं मृग्यम् ।

प्रादेशमात्राण्यूर्ध्वसानूनि मध्ये संनतानि वायव्यानि ।

अनेन वायव्यसंज्ञकपात्रामा स्वरूप प्रदयते । प्रादेशमात्राणि प्रादेशप्रमाणानि । अत्र प्रादेशपरिमितविशिष्ट काछप्रदेशस्य मागत्रयं कृत्वाऽप्रिमो भाग ऊर्ध्वशब्दे- नोच्यते । मध्य इत्यनेन मध्यमो भागः । भवशिष्टोऽधोभागोऽर्थतः । तत्र प्रादेशस्य द्वादशाङ्गुलवात्तस्य भागत्रयं चतुश्चतुरडलात्मकं भवति । तत्राग्रिम उर्वशब्देनोपात्ते भागे सान् भवति । सानुशब्देना क्लियुच्यते । मध्यमे भागे सनमनम् । अर्थात्तृतीयेऽ. धस्तने भागे बुझाकारः । एवं चौखलाकारता प्रदश्चिता भवति । पात्रस्व स्थौल्यं तु देर्यानुरोधेन । एतारवालक्षणानि वायव्यानि वायव्यसंज्ञकानि पात्राणि भवन्ति यैः- बतोद्देशेन सोमरसो गृह्यते । मानवसूत्रे-पादेशमात्राणि संलग्नमध्यानि तृतीयोदुप्ता- नौति । प्रादेशो द्वादशाकुलः प्रमाणं येषां तानि प्रादेशमात्राणि प्रादेशोचानि वर्तुगनि सैलग्न कृशं मध्यं येषां तानि । तृतीयेन भागेनोदुप्तानि उत्खातानि चतुरॉलबिला- नीति माध्यकृता व्याख्यातम् । कठसूत्रेऽपि वायव्यानि हस्तमात्राणि प्रादेशमात्राणि वा तृतीयखातानीति। स्थालीषु तु स्थालीति पृथग्व्यवहाराद्वायव्यत्वेऽपि नेदं लक्षणम् । . .१ य. स्वकं । ३ क. तु दार्धानु। .