पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७६ सत्याषाढविरचितं श्रौतसूत्र- [८अष्टमाने- स्थालीषु वायव्यत्वं तु काश्चतस्त्रः स्थालोयिन्याः सोमग्रहणीरितिश्रुतिलिङ्गात् । दधि- ग्रहपात्रे चतुःसक्तीति विशेषणादन्येषां वायव्यांना परिमण्डल आकारः ।

यथा स्रुगदण्डैवं परिप्लवा ।

अदण्डा दण्डरहिता । दण्डरहितायाः वो यथा स्वरूप.. निष्पद्यते तथा परिप्त- वायाः स्वरूपमित्यर्थः।

तेषां यान्यनादिष्टवृक्षाणि विकङ्कतस्य तान्यहोमार्थानि तु वारणस्य ।

तेषां पात्राणा मध्ये यानि अनादिष्टवृक्षाणि, नाऽऽदिष्टोऽनादिष्टः । अनादिष्टो वृक्षो येषां तानि अनादिष्टवृक्षाणि । पात्राणीति शेषः । अनादिष्टवृक्षाणि पात्राणि विककृतस्य भवन्तीत्यन्वयः । उत्तरत्राहोमार्थानीतिवचनाद्धोमार्थान्यनादिष्टवृक्षाणि विककृतस्य भवन्तीति गम्यते । तुशब्दो वैलक्षण्यार्थः । विकतो भाषया मुत- यीति प्रसिद्ध इति केचित् । हेंकल इत्यन्ये । वारणों वायवारण इति । तत्राहोमार्यान्यनाविष्टवृक्षाणि उपाश्वादीनि तेषु वैकतत्वं भवति । अहोमार्थानादिष्ट. वृक्षाणि तानूनप्त्रसंबन्धिचमस(सः)परिकर्मिकर्तृकसोमतसंबन्धिवेदिकरणसाधनीभूतः स्फ्यो विधनं येतानि त्रीण्येव प्रकृतौ । यदि जुहोमीति लिनादेतस्यापि होमा- थत्वमित्युच्यते तवा वैककृत एव । अस्मिन्पक्षे बहुत्वं विकृतिभूतसोमतन्त्र संबन्धिपात्राभ्यादास सार्थक भवति । तानूनप्रसंबन्धिचमसंस्य वारणवृक्ष- जत्वेऽपि विकृतिभूतसोमतप्रसंबन्धिपात्राणि वारणवृक्षजान्येव । तानि तत्र तत्र व्यक्ती भविष्यन्ति । वाकयानां बढ़त्वात्प्रधानत्वाचान परिभाषाकरणं नतु तानूनप्त्रसंबन्धिच. मसावसरे । न च दर्शपूर्णमासमंबन्धिपावपयोगावसर झ्यं परिभाषोक्तव तत्रैक सर्वत्रेति परिभाषोत्तर वक्तव्यम् । एवं चात्रापि निर्वाहे पुनःपरिभाषाकरणक्लेशो व्यर्थ इति वाच्यम् । उभवत्र परिभाषाकरणस्यैष्टिकसौमिकतन्त्रव्यतिरिक्तपाशुकगादितन्त्रप- रिसंख्यार्थवेन सार्थक्यात् । तेन. पाशुक्या समवत्तधान्यां माई पात्रेषु दादिषु घरकसौत्रामणिसंवन्धिसुराग्रहणार्थकवायव्यपात्रेषु कौकिलीसौत्रामणीसंबन्धिपयोनहार्य- कवायव्यपानेषु चेयं परिभाषा न प्रवर्तते । एवं च होमार्थेषु विकत एव । महो- मार्थेषु वारण एवेत्ययं नियमो नेति सिद्धं भवति । तेषामित्यस्य सर्वनाम्नो बुद्धिस्थप- रामर्शित्वमादाय सर्वपात्रपरामर्शित्वमेव स्वीकर्तव्यं . नतु संनिहितपरामर्शित्वमादाय वायव्यवमसपरिप्लवामात्रपरामर्शित्वम् । एतेषु अहोमार्थत्वस्य कुत्राप्यसंभवेनासंगतत्वा- पत्तेः । होमोऽर्थः प्रयोननं येषां तानि न होमार्थानि अहोमार्थानि । होमोऽत्राङ्गम- धानसाधारण एव गृह्यते । एवं च द्रोणकलशम्य वैकङ्कतत्वमेव । व्याघारणार्थचमस- स्थापि बैंक तत्वमेव । द्रोणकलशस्य तु होमार्यत्वेऽपि न वैकङ्कतत्वनियमः ।