पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. सत्यापाठविरचितं श्रीतसूत्र- [(अपने- पाच्यम् । तस्य नैयग्रोधानोदुम्बरान्वेतिसूत्रान्तरोक्तौदुम्बरत्यव्यवच्छेदकैवकारार्थक स्वस्यैवाङ्गीकारेण विकल्पस्यैवाप्रसरेण तदनुपपत्तेरभावात् । नेयमोधग्रहणं कराव्या- वृत्त्यर्थ, रोहीतकमहणं केवलनेयग्रोधव्यावृत्त्यर्थम् । एवं च रोहीतकाख्यवटमात्रस्य ग्रहणमिति सिद्धं भवति । एतस्यालाभे प्रसिद्धवटोदुम्मरातिरिक्तं यज्ञियवृक्षमात्रं माझं तस्याप्यलाभे तदपौत्यपि सिध्यति । सरुदण्डस्तद्वतस्तद्रहितान्वा । अस्सहकानित्यत्र स्वार्थे कप्रत्ययः । चम्यतेऽद्यते सोमरसो येषु होत्रादिभिरिति चमप्ताः । ते चतुरश्रा अर्थसिद्धपरिमाणा इति केचित्सूत्रकाराः । प्रादेशमात्राश्चतुरङ्गुलविला इति. बौधाय. नादयः । तत्रासरुमत्तायां पुरुषज्ञातानि लक्षणानि सांकेतिकानि कार्याणि | सरुम- सायां तु पुरुषजातानि दण्डेषु विशेषलक्षणानि कार्याणीत्यत्र मूलं मानवसूत्र-दक्षि- णस्यावालम्बदेशे चमतान्ने यग्रोधात्रोहीतकान्वा नानालक्षणान्सरुमत इति । अथैत- ब्राप्यं दक्षिणस्य हविर्धानस्य, अवालम्बो नाम नीडाधोभागस्तत्र दश चमसान्यग्रो. धस्थेमें नैयोधास्तारोहीतकस्यमे रोहीतकास्तानानाचमसलक्षणोक्तानि दण्डेषु लक्ष. णानि येषां तान्सरुमतः सदण्डान्धागवानुक संस्थान्प्रयुनक्तीत्यर्थः । तथा च कठसू. त्रम्-प्रांगमान्दश चमसान्सवृन्तानध इति । वृत(त)मूल(ल)दण्ड इति यावत् । चम सलक्षणानि मानवसूत्रे कठसूत्रे च-अथातश्चमसलक्षणानि व्याख्यास्यामोऽर्थात्परिमा- णानि पात्राणि भवन्ति व्यङ्गुल जाताश्चमसाव्यगुण्डाश्चतुरङ्गुलेोच्छ्रायाः पडणु कविस्ताराः प्रादेशमात्राश्च दीर्घवेन तेषां दण्डेषु लक्षणानि भवन्ति । अरेखश्चमसो होतुरुन्मृष्टो ब्रह्मणः स्मृतः । उद्गातुरवमृष्टश्च खामिनः पार्श्वमृष्टकः ॥ एकरेखस्तु कर्तव्यः स्तोतुश्चमझो चुभैः । द्विरेखो ब्राह्मणाच्छसिनः प्रोक्तस्त्रिरेखः पोतुरुच्यते (१) । अभ्रिं तु कारयेन्नेष्टुराग्नीधस्य मयूखवान् । अथाजस्य पदं कुर्यादच्छावाकस्य लक्षणम् ॥ इति । अरेखो रेखाशन्यो होतुश्रमो भवतीत्यर्थः । उर्ज मृष्टस्तष्टो दण्डोपरिभागोड. धिक तनूकृतश्रमतो ब्रह्मणो भवेदित्यर्थः । अब दण्डाधोभागो मृष्टस्तष्टोऽधिक तनूकृत उद्गातुश्चमस इत्यर्थः । पार्श्वे दण्डपार्श्वे मुष्ट स्तष्टोऽधिकं तनूकृतः स्वामिनो यजमानस्य चमस इत्यर्थः । एका रेखा तिर्थदण्डे यस्य स एकरेखः । स प्रस्तोतृचमसः । विस्रो रेखास्तिर्यम्भूता दण्डोपरि यस्य स त्रिरेखः पोतुरित्यर्थः । नेष्टुश्चमतदण्डेऽभिः काष्ठकुद्दा. लकस्तदाकारं कारयेदित्यर्थः । अधिः स्त्री काष्ठकुहाल इत्यभिधानात् । आनोधचमत- १. ग. प्रशास्तुथ । २ ग, प्रशास्तुश्चम ।