पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१प्रः पटलः ] गोपीनाथभट्टकृतज्योत्स्नाब्याख्यासमेतम् । ७६७ तरं वैतस्याः प्रयोगः स्यात्तं वारयितुं प्रथमामितिवचनम् । प्रथममिति परित्यज्य प्रथं. मामित्येवं वचनं सुग्भ्य एवं प्राथम्यं स्यान्नतु सर्वपात्रेभ्यः प्राथम्यमित्येतादृशार्थ बोध- यितुम् । सुग्ग्रह्ण वसाहोमहवनीवजुहूरेवेयं नतु केवळं जुहूकार्यकारित्वमात्रमितिज्ञा- पनार्थम् । तेन सुत्यानि जुबां व्यापृतायां पशुबन्धे वसाहोमहवनीवत्प्रचरण्येव भवति । तथा च भरद्वाजः-प्रचरण्या सोम इति । व्याप्तायां जुबामियं होमकार्येषु भवतीति । अत एव पालाशीयम् । अनयो दे किं फलमिति चेत् । जुहूकार्यकारिपात्राणां विशेष. पचनाभावे वैककृतत्वं जुहूरूपपात्राणां पालाशत्वमिति । यदि जुहूकार्यकारिणामपि पात्राणां जुहूरूपता स्यात्तदा वैकङ्कतत्वविधायकपरिभाषा निरवकाशत्वेनापार्थिका स्यादिति ज्ञेयम् । वैसर्जनहोमसंवन्धिप्रचरण्यां जुग्ग्रहणाभावान्न पालाशत्वं किंतु परिमा- षाप्राप्तवैकङ्कतत्वमेव । दण्डयूपी न प्रयुनक्ति प्रयुक्तत्वात् । यूपशकलमपि न प्रयु. नक्ति प्रयोजनाभावात्।

आज्यग्रहणकाले प्रचरण्यां चतुर्गृहीतं गृहीत्वोत्तरासु गृह्णाति ।

आज्यग्रहणकाल इत्यनेन पवित्रकरणादिकमाज्योत्पवनान्तं पाशुकं कर्म सूच्यते । न ब्रह्मवरणं वाचस्पत इत्यायेव ब्रह्मणः समानकाले प्रचरणीमादौ तूष्णीमेव जुहूवत्सं- मृज्य जुड़ादिनुचः समाष्टिं । प्रचरण्या जुहूत्वेऽपि अवषट्कारसंबन्धित्वात्तूष्णी संमार्गों वसाहोमहवन्या इव । उपभृद्धवयोस्तु पृथङ्मन्त्रसत्वात्समन्त्रकः संमार्गः । प्रयोग आज्यग्रहणे च प्राथम्यात्प्रत्याहारन्याये[न]तन्मध्यपतितसमार्गेऽपि प्राथम्यम् । प्रच- रण्या चतुर्ग्रहीतमपूर्वहोमार्थत्वात्तुष्णीमेवाऽऽनौ गृहोप्तोत्तरासु जुहादिषु पश्वगृह्वा- तीत्यर्थः । प्रचरण्याः प्रथमत्वात्तामपेक्ष्योत्तरत्वं जुलादीनाम् । स्पयस्य वर्मन्येवाऽऽ- ज्यग्रहणं विशेषवचनामावात् । आनीधे वा । अकेषां प्राग्वंशेऽग्नीषोमीयस्याऽऽज्यानि गृह्णात्याग्नीधे सवनीयस्योत्तरवेद्यामनुवन्ध्याया इति आपस्तम्बसूत्रात् । उत्तरवेदिप्स- मीपे वा । अपरेणोत्तरवोद सवनीयस्यानूबन्ध्यायाश्चाऽऽज्यानि गृह्णातीत्येक इति तेनैव विकल्पेनाभिधानात् । एतत्पशान्तरसत्वं सूचयितुमेव वाऽऽन्यग्रहणकाल इति वचनम् । अस्मिन्कल्पे कालशब्दो देशपरो ज्ञेयः ।

प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्येध्मं वेदिं प्रस्तरं च प्रोक्ष्य प्रोक्षण्यवशेषं निनीय पवित्रे अपिसृज्य प्रस्तरꣳ सादयित्वा स्रुचः सादयति ।

उक्त तरपरिसंख्यार्थमनुक्रमणम् । आमन्त्रणेन प्रसवोऽप्युपलक्ष्यते। अन्यथाऽऽमन्त्र- णस्यैव निरर्थकत्वापत्तेः । इध्मं वेदि प्रस्तरं च प्रोक्ष्य प्रोक्षण्यवशेष निनायेत्यनेन १ ख, लभ्यते।