पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६८ संत्याषाढविरचितं श्रौतसूत्र- [अष्टमप्रश्ने- फ्रमेणान्तदि पुरोग्रन्थीत्यादेः प्रत्युक्षणान्तस्य निवृत्तिः क्रियते । प्रोक्षण्यवशेष निनीय पवित्रे अपिमृज्येत्यनेन क्रमेण विष्णोः स्तूपोऽसीति पुरस्तात्प्रस्तरग्रह्ण व्यावयते । प्रन्थिविनंसनं तु भवत्येव । तद्विना पवित्रापिसर्जनासंभवात् । अत एव तदनुगुण- त्वान्न व्यवधायकं भवति । पवित्रे अपिसृज्य प्रस्तर५ साइयित्वेत्यनेन क्रमेण ब्रह्मणे प्रस्तरप्रदान तृणैरन्तर्धानं शुल्बस्तरणमनूबाजार्थोल्मुकोदूहनमाहवनीयकरुपमाघारस- मिधोरभ्याधानं विधृत्योरासादनं च व्यावय॑ते । स्तीर्णन चर्हिषाऽन्तरितत्वादेव तृणैर- न्तर्धानाभावः । शुल्वस्तरणमपि न । तस्य बहिरास्तरणाङ्गत्वेन तदभाकादेव तदभाव- सिद्धेः । शुल्बस्य प्रतिपत्तिस्तु प्रस्तरेण सह सादनमात्रमेवेति । अनुयानार्थोत्कोद्- हनाह्वनीयकल्पनयोः सवयैव व्यावृत्तिन किंतु अस्मिन्काले व्यावृत्तिः । तेनाऽऽज्या- भिमन्त्रणोत्तरमेले कर्तव्ये एव । अत्र कर्तव्यतायां क्रमो बाधितः स्यात् । नच लोप एवानयोरस्त्विति वाच्यम् । अलोपेन निर्वाहे सर्वथा तस्यानुचितत्वात् । आधारसमिधोर- म्याधानमप्याज्याभिमन्त्रणोत्तरमेव । प्रस्तरस्य प्रदानाभावादेव प्रत्यादानाभावः । अथवाऽग्नीषोमीयपश्चर्थान्यानार्थोल्मुकयोरेकशेवी प्रज्ञातौ स्थापयितव्यौ तयोः सवनी- यपश्वर्थान्याजाः कर्तव्या इति । आयनीयकल्पनस्यापि तत्सहचारित्वादेव निवृत्तिः । एवमग्नीषोमीयपश्वर्थाचारसमिधावेव प्रज्ञाते तथैव स्थापनाये । अस्मिन्कल्प इध्मे ततस्त्वामष्टादशधा संभरामि सुसंमृता, एका समिधं यज्ञायुरनुसंचराम्, धृष्टि संभरामि सुसंभृतेत्यूहः । विधुत्योरासादनं तु खुप्यत एव । पवित्रे अपिसृत्य प्रस्तर- सादनादि प्रतिपद्यत इत्येतावनैव सिद्धे प्रस्तर५ सादयित्वा सुचः सादयतीतिगुरुसूत्र- करणादेवमत्र ज्ञायते प्रस्तर एव सर्वासा खुचामत्र सादनमिति । अत्राऽऽस्तरणरूपमे वाऽऽसादननित्यर्थतः सिद्धं भवति । खुचः सादयतीति अनुवाद एव । तेन सुवस्वधिन त्याज्यस्थालीपृषदाज्यस्थालीसुगनिमन्त्रणाज्याभिमन्नणानि भवन्त्येव । अग्नीषोमीयवि. कारपक्षे बहिर्व सर्व यथाप्रकृत्येव । परिधयोऽप्यस्मिन्पो भवन्ति विधृती च ।

अयं नो अग्निर्वरिवः कृणोत्वित्याग्नीध्रमभिमृशति ।

यजमानेनायं यज्ञ इत्यनेन मन्त्रेण पञ्चहोत्रा घाऽऽज्याभिमर्श कृत आग्नीधमानी. धनण्डपमभिमशति । मण्डप शब्दो जनाश्रये वर्तते । मण्डपोऽस्त्री जनाश्रय इति कोशात् । तत्र जनाश्रयत्वं स्तम्भचतुष्टयोपरिदत्तवंशोपरिष्टाइत्ताच्छादनसंबद्धभूमावेव वर्तते नतु केवल आच्छादवे केवलभूमौ च । आग्नीध उपविश्य हविर्धान उपविश्य सदस्युपविश्येत्यादौ विशिष्ट एव शक्तिमहात् । भूतभाव्युपयोगं हि द्रव्यं संस्कारमई- तातिन्यायसिद्धोऽभिमत्मिकः संस्कारो यद्यप्याच्छादनतविशिष्ठभूम्योरविशिष्टो भूत- भाव्युपयोगस्य तुल्यत्वात्तथाऽपि भूमेः साक्षादुपयोगात्तस्या एवाभिमर्शः । उभयोरे- कदा स्पर्शासंभवेन विशेषणांशे बाधात् । नागृहीतविशेषण न्यायेन विशेष्यांश एवं