पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६६ सत्याषाढविरचितं श्रौतसूत्र- [८ अष्टमप्र- नास्ति शुरुवस्यैवाभावात् । अभितो योनिरित्येतदपि नास्ति अनन्तरोक्तहेतोः। उत्क- बहिःसंभरणेऽलुभितो योनिरित्येतदेव । आपस्त्वामितीन्द्रस्य स्वेत्येतद्वयं प्रस्तर- स्याऽऽदौ कृत्वोत्करवर्हिषः करोति । बृहस्पतेर्मूर्धा हरामीत्यादिनिधानान्तमुभयोः सहैव । उर्वन्तरिक्षं प्रेहीत्यस्मिन्मन्त्रे तु नोहः । गमनक्रियाया आत्मन्येव संबन्धेन बहिःसंबन्धासंभवात् । हे आत्मन्नरु विस्तीर्णमन्तरिक्षमिव बर्हि प्रतिच्छेदनार्थं गत- स्ततः परावृत्य प्रेहि विहारदेशं प्रति प्रकर्षण गच्छेत्येतादृशो यात्मसंबन्धः । नन बर्हिष एवात्र संबन्धोऽस्तु किं बाधकमिति वाच्यम् । पूर्वस्मिन्नेतादृश एव मन्ने व्यभिचाराद्गमनकरणमन्त्रलदर्शनाद्गमनकर्तुरेकत्वाच । अदित्याः सद आसीदेत्यत्राऽऽ. सीदतमिति द्विवचनान्त कहो भवत्येव । बहिरभिधायकत्वात् । एवं देवंगममाप्ति अदि. त्यास्त्वा पृष्ठे सादयामीत्यनयोरपि देवंगमे स्थः । अदित्या वां पृष्ठे सादयामीति यथायथमूहः । परिभोजनीयाख्यमुष्टिमुलपराज्यर्थमुष्टि तैः सहवाऽऽहरति प्रकृति वत्तूष्णीमेव । अग्नीषोमीयविकारपक्ष आश्चत्रालः प्रस्तर ऐक्षवी तिरश्ची कामयमयाः परिधयोऽधिकाः पौतु दारवेम्य इति पशुसूत्रोक्तमाश्ववालप्रस्तरादिकं सर्वमस्त्येव । चर्हिस्तु नैव । न बहिर्विद्यत इति निषेधस्यात्रापि प्रवृत्तौ बाधकाभावात् ।

पात्रसꣳसादनकाले प्रचरणीं प्रथमाꣳ स्रुचं प्रयुनक्ति ।

पात्रसंसादनकाल इत्यनेन परिस्तरणपाणिप्रक्षालनोलपरानीस्तरणब्रह्मयजमानतदन- करणानि सूच्यन्ते । अथवा पात्रसंसादनकाल इत्यस्य पात्रसंसादनदेश इत्यर्थः । तथा च पात्रसंसादनदेशे प्रचरण्याः प्रयोग इति अर्थो भवति । दृष्टं च कालशब्दस्य देशपरत्वं बौधायनसूत्रे स उपरवाणां काल इत्यादौ । स च प्रचरण्याः सौमिकत्वा- च्छालामुखीयोत्तरतालिमदेश एव । ननु सवैष्टिकपाशुकपात्रसंसादनदेशो यः स एव प्रचरण्याः सौमिक्या अपि तथा च कथं देशभेद इति चेत्सत्यम् । शालामुखीय गाह. पत्यकर्मभ्योऽन्ववस्यन्ति तस्मिन्गार्हपत्यकर्माणि क्रियन्त इति वचनात्प्रचरण्याः सोम. कर्भसंवन्धिपात्रत्वेन शालामुखीयो तरतःसंलग्नदेश एव स्वतन्त्रतथैव प्रचरण्या: प्रयोगो न तु क्रमप्राप्ते स्थाने द्वंद्वत्वधर्मेणेवरीत्या देशभेदसंभवात् । वेदस्तु महावे. धर्थ कृतो यः स एव शालामुखीयस्योत्तरतो दर्भान्संस्तीर्थ यथायें पाशुकानि पात्राणि प्रयुनक्ति । तत्र प्रचरणी तुवमधिकां प्रयुनक्ति । सा च जुहादिभ्यः त्रुभ्यः प्रथमा भवति । आगन्तूनामन्ते निवेश इति न्यायेन प्राकृतस्नुकायोगानन्तरं सतपात्रप्रयोगान- १ रन, ग, स्ति बहिषोऽभा । २ ख. ग. तप्यते प्रस्तरसभरण उत्त निधनादिकरणक- निधानाभावात् । उत्करबहिःसंभरणे तु अलभितो योनिरिखेतदेव लुभ्यते प्रत्तराभावात् । आ । ३.ख. ग. प्रेतमियत्रोई केचित्कुर्वन्ति । तन्न । ग" | ४ ख, ग . तु कर्भना । -