पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१प्र०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ७६५

यज्ञार्तिं प्रति जुहोतीत्येकेषाम् ।

यज्ञस्याऽऽतियज्ञातिस्तां यज्ञातिम् । आतिविनाशो ऽव इति यावत् । अनेन नैमि. तिकत्वमप्येतस्य होमस्य केषांचिदाचार्याणां मते भवति । यज्ञातिमित्यत्र कर्मप्रवचनीय- संज्ञा । तेन प्रतियज्ञाति अर्थ होम इति सिद्धं भवति ननु रात्रि संबन्धितृतीयभागाधि करणकबोधनाभावरूपयज्ञातिनिमित्तक एवायं होम इति । एतद्पयतातिनिमित्तके होम प्राप्ते. प्रायश्चित्तस्य संधानार्थत्वेन प्रबलत्वादादौ प्रायश्चित्तार्थ कृत्वाऽनन्तरं नित्यः कर्तव्य इति सोमतन्त्र एव यत्किचिद्याविनेषेऽनादिष्ट इदं प्रायश्चित्तं होतव्यं नतु पाशकैष्टिकतन्त्रयोः । उत्तरसूत्रे सवनीयस्य तन्त्रं प्रक्रमयतीत्येतावनैव पाशुकतन्त्र- मेतदितिज्ञानसिद्धौ पशुशब्दोपादानं यज्ञतनूहोमः सोमतन्त्रसंवन्ध्येव तत्रानादेशेऽ. यमेव होम इति । दोषनिहरणे सामर्शतिशयात्सर्वप्रायश्चित्तमपि होतव्यम् । एकपा- मितिवचनात्प्रायश्चित्तात्मकत्वं पाक्षिकमिति गम्यते ।

सवनीयस्य पशोस्तन्त्रं प्रक्रमयति ।

सबने सौत्येऽहनि भवः पशुः सवनीयस्तस्य पशोस्तनं कर्मकलापं प्रक्रमयति आर. मत इत्यर्थः ।

तस्य निरूढपशुबन्धेन कल्पो व्याख्यातः ।

तस्य सवनीयस्य । अन्यदग्नीपोमोये कृतव्याख्यानम् । षड्ढोतृपश्चिष्टो न स्तः । अङ्गभूतत्वात्पशोः । अग्निप्रणयनान्तं कर्म कृतत्वाल्लुप्यते । सवनीये पशी नाग्न्यन्वाधान विद्यत इति निषेधादन्वाधानामावः । प्रायणीयाप्रभृतिष्वित्यनेन वनोपायनाद्यभावः ।

न बर्हिर्विद्यते प्रस्तरमेवाऽऽहरति बर्हिषः कल्पेन ।

बर्हिः पाशुकं बाहः । उत्करबर्हिस्तु विद्यत एव । ननु प्रस्तरमेवाऽऽहरति बर्हिषः कल्पेनेत्येवकारेणैव बहियवच्छेदो भवति किमर्थमयं निषेधो न बर्हिविद्यत इति चेन्न । बर्हिषः कल्पेन प्रस्तरमेवाऽऽहरतीत्येतावत्येवोच्यमाने बहिर्यवच्छेदो न भविष्यति किंतु बर्हिषः कल्पस्थैव बहिराहरणे व्यवच्छेदो भविष्यति । तथा च तूष्णीमाहरणं स्यात्तदा तव्यावर्तयितुं निषेधस्याऽऽवश्यकत्वात् । न बहिर्विद्यत इत्येतावत्येवोच्यमाने प्रस्तरस्यापि बहिष्ट्वानिवृत्तिः स्यात्तच्यावृत्त्यर्थ प्रस्तरमेाऽऽहरतीतिवचनम् । प्रस्तरमाह. रत्येवेत्येवकारस्याऽऽहरतीत्येतदनन्तरमन्वयः । तथा चैवमर्थो भवति बर्हिषः कल्पेनाऽऽ- हरत्येव न तु संनहनमपीति । एवरीत्येवयकारः सार्थको भवति तेन संनहनं यदाऽऽ- पस्तम्वेनेमाबहिः संनयति न वा बहिः प्रस्तरमेवेति सूत्रेण सनातीति व्याख्यातृप्रद. शिंतशेषेण प्रापितं व्यावय॑ते । उत्करबहिरर्थमेव शुल्वकरणं न प्रस्तरार्थम् । उत्कर. बहिरथै शुल्वकरणादि स ते मा स्थादित्यन्तं करोति । सुसंभृता स्वा संभरामोति 35