पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(अ०पटलः ] गोपीनाथभकृतज्योत्साव्याख्यासमेतम् । ७६१ चनादादित्यग्रहार्थगतातङ्ग्यदध्यर्थदोहकर्ताऽपि पूर्ववत्प्रतिप्रस्थातैव । पञ्चानां दोहा- नामत्रैव करणं प्रैषानुरोधात् । सवनीयामिक्षार्थस्य दोहस्येदानीमेव दोहनम् । साना- व्यनिष्पत्तेर्दिनद्वयसाध्यत्वात् । सवनीयामिक्षार्थदोहकर्ता प्रतिप्रस्थातैव प्रातोहस्य तस्कर्तृकत्वेन तसंबन्धिन एतस्यापि तत्कर्तृकताया एव युक्तत्वात् । अनुबन्ध्यास्था- नीयामिक्षाकरणमन्यथाऽनुपपत्त्या लौकिकन दत्रैव । कलौ गवालम्भस्य निषिद्धत्वादा- मिक्षव । तत्र पञ्च दोहास्तूष्णीम् । सक्नीयामिक्षार्थ समन्त्रको दोहः । पञ्चानां वोहानाममन्त्रमेव शाखाहरणादितन्त्रम् । तप्तमनातळ्यमिति वचनात्तापमात्र कार्यम् । पयस आतञ्चने दयित्वापत्तिः । इष्टापत्तौ तु पयसा मैत्रावरुणं श्रीणातीति पयःकरणक श्रपणं न सिध्येत् । एवं चार्थादेवाऽऽतञ्चननिवृत्तावनातक्यमिति वचनं शाखाहरणा- दिदोहधर्मप्राप्ति ज्ञापयति । स च पयसः प्रदानार्थस्वाभावातूष्णीमेव । अत एव क्रय- धर्मा न भवन्ति । तथा च नवमाध्याये चतुर्थपादे नैमिनि:-श्रपणानां त्वपूर्णत्वात्प्रदा- नार्थे विधानं स्यात्, गुणो वा श्रपणार्थत्वादित्यादिसूत्रैरमुमर्थमाह । सो पयसा मैत्रावरुणं श्रीणातीति पयसः सोममिश्रण प्रदानार्थ दृष्टार्थत्वात् । सोमसंस्कारार्थत्वे स्वदृष्टार्थता स्यादिति प्राप्ते द्वितीयाश्रुतिवशाददृष्टकल्पने दोषाभावान्न पयसः प्रदेय. त्वमिति । श्रपणानां पयःप्रभूतीनां प्रदानार्थे । सवनीयामिक्षार्थ समन्त्रकमेव शाखा- हरणादितन्त्रम् । अथवाऽऽदौ सर्वेषां क्रमेणामन्त्रसमन्त्रभेदेन शाखाहरणम् । क्रमेण तथैवोपवेषकरणं तथैव त्रिवर्भपवित्रावसर्जनम् । कमेण तथैव दोहा इति । शतं मित्रावरुणाम्या शरदो दुहानाः । इह वो मित्रावरुणौ रमयतां गावः प्र णो ब्रूहि मित्रावरुणाभ्यार हविरिन्द्रियं बहु दुग्धि मित्रावरुणाभ्यां देवेभ्यो हव्यं० सोमेन त्वाऽऽतनच्मि मित्रावरुणाभ्यां दधि, इति सवनीयामिक्षायां विकारः । शाखोपवेषयो- राहरणसमय एवं परिज्ञानार्थ बिहानि कार्याणि । अथवाऽऽदावेव सवनीयामिक्षार्थ- को दोहः । ततोऽमन्त्रकाः पञ्च दोहाः । एतदनुरोधेनैव शाखाहरणोपवेषकरणादि । सर्वेषु दोहेषु जातेषु समकामिक्षायाः प्रातःहाय वत्सापाकरणम् ।

आग्नीध्र ऋत्विजोऽलंकृता वसन्ति ।

अनेन सदसि वासो ब्यावयते । आपस्तम्बेन न सदस्युपवस्तवा इति दोहार्थप्रैष एवं निषेध उक्तः । अकृता इत्यत्रालंकारो मानुष एव नतु दिच्यापच्यौ । ते चोका वैखानसेन- हेमभूषणसंपन्नः शुभ्रवस्त्रानुलेपनः । सुगन्धिकुसुमैर्जुष्टो दिव्योऽलंकार उच्यते ॥ स एव पुष्परहितः साञ्जनो मानुषः स्मृतः । एषोऽनुलेपरहितः पित्र्योऽलंकार ईरितः ॥ इति । १खग, पति । ।