सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६० सत्यापाढविरचितं श्रौतसूत्र- [ सप्तमप्रश्न- नन्वन्तरा यज्ञाङ्गानि बाहाः कर्तार इत्यनया परिभाषयैवान्तरङ्गत्वे सिद्धे पुनरन्तर- स्वसिद्ध्यर्थं सन्यदक्षिणग्रहणं तत्र तत्र यत्कृतं तब्यर्थमिति चेत्सत्यम् । कर्तृगृही- तस्य यज्ञातस्यान्तरङ्गत्वमत्रैक नान्यतिज्ञापनार्थत्वात् । अत्रैवोच्यमाने तातिरिक्त. मिन्नेव स्थलान्तरे नियमामायापत्तिरतस्तत्र तत्र सव्यदक्षिणवचनम् ।

अत्र वसन्ति ।

अत्राऽऽमी एव वसन्ति नान्यत्र । वसन्तीत्यत्रान्तीवितो णिच् । तेन वासयन्ती- स्यों मवति । अध्वर्युरित्येक शेषः । बहुवचनस्य पूजार्थत्वात् । अथवाऽध्वर्युचतुष्टयेन असमीया वसतीवर्य इति शेषः । आम उपवासयत्येतद्वै यज्ञस्यापराजितं यदायी पदेव यज्ञस्पापसनितं तदेवैना उपवासयतीति श्रुतेः । एना क्सतीवर्यः ।

सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति संप्रेष्यति पितापुत्रीया सुब्रह्मण्या भवेति ।

पूर्वपश्याख्येयम् ।

या यजमानस्य व्रतधुक्तामाशिरे दुह्रत या पत्न्यास्तां दधिग्रहाय या घर्मधुक्तां दधिघर्माय तप्तमनातङ्क्यं पयो मैत्रावरुणाय शृतातङ्क्यं दध्यादित्यग्रहाय कुरुतादिति संप्रेष्यति।

या यजमानस्य मतदोग्धी गौस्तामाशिर आशिरनिमित्तं दुहृत, मथितं दध्याशिरं, या पत्त्या व्रतदोन्धी गौस्तां दधिग्रहाय दधिग्रहार्थ दुहन, दना ग्राह्यो ग्रहो दधि- ग्रहः । अनेनार्थादधिरूपं हव्यमन्त्र ज्ञायते । या धर्मधुक्, धर्मः प्रवर्दीस्तत्संबन्धिद्रव्य दोग्धी गौस्ता दधिधर्माय दुहृत । दना साध्यो धर्मो धर्मनामककर्मविशेषो दधिर्म- स्तदर्थमित्यर्थः । अत्रापि अनन्तरोक्तरीत्या दधिरूपमेव द्रव्यं ज्ञायते । तप्तमनातङ्ग्य- मनातञ्यं यस्य तमस्य सत आतश्चनं न, एतादृशं पयो मैत्रावरुणाय मैत्रावरुणमहाय। कुरुतेत्यत्राऽऽकृष्यतेऽथवा कुरुतादित्यत्रापकृष्यते । शृतं सदेवाऽऽतब्च्यं बुध्नस्य शीतस्वापेक्षा पत्र न तच्छृतातङ्यमित्युच्यते । एतादृशं दधि आदित्यग्रहायाऽऽ- दित्यग्रहार्थं कुरुतादित्यर्थः । कुरुतादिति लोटः प्रथमपुरुषैकवचनम् । बधिग्रहदधिध- भर्थियोर्दमोर्न शृतातक्ष्यरूपता । आज्यग्रहस्य सोमग्रहस्य वा तत्कायनयाऽनुष्ठान कर्तव्यस्वेनामिमतं यदा तदा या पल्यास्तां दधिग्रहायेति लुप्यते । दधिग्रहाभावेन दोहामादात् । अवार्ये या धर्मधुक्तां दधिधर्मायेत्येतस्लुप्यते । दधिधर्मामावेन दोहामा कात् । मैत्रावरुणपयोर्थ यस्याः कस्याश्चिद्रोर्दोहः । शृतातक्पार्थ यस्याः कस्याश्चित् । आशिरादित्रयार्थदोहकर्ताऽतो मैत्रावरुणपयोथैदोहकर्ता तु तप्तमनातक्यं पयो मैत्रा- वरुणायेत्यत्र दुहतेत्यस्यान्वय इति पक्ष आशिरादित्रयार्थदोहनवत्कर्ताऽत्रापि अनि-- यतः । कुछतादित्य ग्रिमस्यात्रान्वय इति पक्षे तु प्रतिप्रस्थातैव । एकवचनात् । एकव-