पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ७२८ सत्यापाढविरचितं श्रौतसूत्र- [७ सप्तमप्रने- उत्तरवेविमित्यनन्तरमिवशब्द उपमार्थकोऽध्याहार्यः । यथोत्तरवेदि न स्तुणाति पूर्वत्र तद्वदत्र स्तरणे खरमुपरवान् विष्णियानपि न स्तुणातीत्यर्थः । अन्यथा पूर्वत्र स्तरण उत्तरवेदिस्त रणापत्तेः । नचेष्टापत्तिः । उत्तरवेदरम्यायतनत्वेन तत्स्तर. णात्य कुत्राप्यदर्शनात् , अग्नेस्तत्र विद्यमानत्वेनासंभवाच । इत्योकोपाहश्रीमदग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेयेयाजिसर्वतोमुख या- जिद्विषाहस्राप्रियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूनगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकेशिसू- त्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायर्या ज्योत्स्नाख्या वृत्तौ सप्तमप- श्वस्य सप्तमः पदला ॥७॥

7.8 अथ सप्तमप्रश्नेऽष्टमः पटलः ।

अग्नीषोमीयस्य पशोस्तन्त्रं प्रक्रमयति ।

अग्निश्च सोमश्चाग्नीषोमौ । अग्नीषोमो देवता यस्य सोऽग्नीषोमीयः | तस्य पशोस्त. त्रमन्यन्वाधानादिकर्मकलापं प्रक्रमयति आरभत इत्यर्थः । स्वार्थे गिजयम् ।

तस्य निरूढपशुबन्धेन कल्पो व्याख्यातः ।

स्वान्त्रः पशुनिरूढः स बध्यते यस्मिन्कर्मणि तत्पशुबन्धाख्यं कर्म तेन कर्मणा तस्या- ग्नीषोमी यस्य पशोः कल्पः प्रकारो व्याख्यात उक्त इत्यर्थः । तत्र सर्वपशूनामेष कल्पः पशुः प्रातदोहविकारः कालसामान्यात्तथाऽऽमिक्षाऽऽग्नेयेन्द्राग्नयोस्तद्विकारेषु चैतदविकृतमग्नी- षोमीये ततिकारेषु चाऽऽश्ववालः प्रस्तर ऐक्षवी तिरश्ची कार्यमयाः परिधयोऽधिकाः पौतदार वेभ्योऽमुष्मा अमुण्य वपाया मेदसः प्रेष्यामृष्य पुरोडाशस्य प्रेष्यामुष्मा अमुष्य हविपः प्रेष्यति पशोदेवते संप्रेष्यत्यैन्द्रे सारखत्यां तद्विकारेषु च दार्श पूर्णमासिकः प्रचरणकल्पः प्रचरणकल्प इति पशुप्रकृतिविकृतिभावबोध के सूत्रम् । आग्नेयेन्द्राग्नयो- रित्यादिना पञ्चपशूनां प्रकृतित्वं प्रदश्यते । आग्नेयेन्द्राग्नावमिष्टोमोक्थ्यसंस्थयोरेती सवनीयो पशु तयोरविकृतमन्यूनानतिरिक्तमेतत्तन्नं यनिरूढ उक्तं तयोर्ये विकृतिभूताः पशवस्तेष्वपि तथा । अनीषोमीय उपवासयीयः पशुस्तद्विकारेष्वौपवसथेषु निरूदादधि- कमाश्चवालादिकं तत्तु पूर्वमातिथ्यायाभिष्टौ कृतं यदातिथ्याया बहिस्तदुपसदां तदाग्नी. घोमीपस्येत्यादिनाऽग्नीषोमीयार्थमेवोक्तमिति सद्विकारेष्वपि तथैव । निरूढे सवनीये तद्विकारेषु च प्रणयने पौतुद्वा एवं परिधयो न कार्मर्यमयाः । तेषामग्नीषोमीय एव वनेन प्राप्तत्वात् । गैषविशेषास्तु शाखान्तरेण व्यवस्थापितास्ते निरूढे न सन्तीत्युक्त.