पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२७ ७१० पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । भीयेणेत्यत्र तृतीया तुल्यायरतुलोपमाभ्यां तृतीयाऽन्यतरस्यामिति सूत्रेण । यथा दक्षिणेनान्तर्वेदि संचरो भवतीत्येतत्पूर्व यथोत्तरेणान्तदि संचरो भवतीतिसूत्रवध्या- रूयेयम् । बौधायनेनाऽऽग्नीधमण्डपस्य पञ्चारनित्वमुक्तं मार्गलीयमण्डपोऽपि तद्व- दुक्तः सोऽपि संभवे कार्यः । अरत्निमानं चतुर्षिशाङ्गुलप्रभृतिप्रक्रमपक्ष एव संभ- पति नान्यदा । विशाङ्गुलपर्यन्तप्रक्रमपक्षे पदमानमेवेति ज्ञेयम् ।

रौद्रमनीकꣳ सर्वत्रानुषजति ।

रौद्रं रौद्रपदवन्तमनीकमनीकपरवन्तं मन्त्रभागं सर्वेषु मन्त्रेषु अन्तिममध्यतिरि- केषु अनुषजति योनयतीत्यर्थः । स च भागो रौद्रेणानीकेन पाहि माऽग्ने पिहि मा मा हिश्मीरिति । इमं मागं तत्तन्मन्त्रान्तेषु योजयतीति निष्कृष्टोऽर्थः । रौद्रमनीक- मित्यत्र मतुवर्थकोऽर्शगादित्वादच्प्रत्ययः । एतेन केवलरौद्रानीकपदयोरनुपयुक्तयो- व्यावृत्तिर्भवति । केवलरौद्रपदोपादान उत्तरस्याऽऽदिना पूर्वस्यान्तं विद्यादित्यनया परिभाषया तत्तन्मात्रान्तेष्ववगतेषु तदनन्तरं यस्य कस्यचिद्रौदपदवतो मन्त्रस्यानुषतः स्यात् । रौद्रपदवान् मन्त्रस्तु स्वशाखायां ब्रह्मणा त्वा शपामीत्य नुवाकात्मक एक । केवलानीकपदोपादाने यस्य कस्यचिदनीकपदवतः सैनानीकेनेत्यस्यानुपङ्गः स्यात्स च मा मूर्तिकंतु पदद्वयविशिष्टमन्त्रस्यैवानुषङ्गः स्यादित्येतदर्थम् । पदद्वयविशिष्टस्तु रौदेणा- नीकेन पाहि माऽग्ने पिपृहि मा मा हिंसीरित्ययमेवैतत्प्रकरणगतश्च । भहिरसि बुनिय इत्यन्तिममन्त्रान्त एवं पठिनत्वात्तत्रैवानुषङ्ग इत्येतादृशार्थ वारयितुमनुषतविधिः । सर्वत्रान्तिममन्त्रव्यतिरिक्तेषु मन्त्रेषु । अन्तिगे तु पठित एवास्ति । अत्र नोपस्पर्श नमनीकविशेषत्वाद्रौद्र शब्दस्य । रौद्रेणानी केनेति सर्वत्रानुषजतीत्येतावतर्जुमार्गेणैवा. नुष सिद्धौ रौदमनीकमिति वक्रवचनं रौद्रानोकवद्विशिष्टोऽयमनुषङ्ग इतिज्ञानाव: श्यकत्व सिध्द्यर्थम् । ज्ञानाभावे यमुर्भेषप्रायश्चित्तं दक्षिणानी होतव्यमिति ।

अत्र वेदिस्तरणमेके समामनन्ति ।

पूर्वत्र यद्वेदिस्तरणमुक्तं तत्तत्र न कर्तव्यं किं तु अत्रास्मिन्काले कर्तव्यमित्येक आचार्या वदन्तीत्यर्थः । नचोत्तरं बर्हिष उत्तरबर्हिः स्तृणातीतिश्रुतेपैयर्थाभिया पूर्वत्र स्तरणं नित्यमत्र द्वितीय स्तरणं वैकल्पिकमिति वाच्यम् । एतस्याः श्रुतेरग्नीषोमी- यार्थबहिःस्तरणपरत्वेन सार्थक्यसंभवे द्वितीयापूर्वस्तरणकल्पनाया अनुचितत्वात् । अत्र स्तरणे विशेषगाह-

उत्तरवेदिं खरमुपरवान्धिष्णियाꣳश्च न स्तृणाति ।। २१ ।।

इति हिरण्यकेशिसूत्रे सप्तमप्रश्ने सप्तमः पटलः ।