पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२४ सत्याषाढविरचितं श्रौतसूत्र- [ सप्तमप्रभे- निर्वोद, शक्यत्वात् । अस्मिन्पक्षेऽतीव न्यून मानं प्रादेशात्मकं तदप्यत्र भवति । शास्त्रान्तरे प्रादेशमानं दृष्टं चास्ति । प्रादेशमात्रान्तरालत्वमप्यस्मिन्नेव पक्षे सूत्रान्तरे दृष्टम् । इदं च पश्चदशाङ्गुलपदपक्षे । दशाङ्गुलद्वादशाङ्गुलान्यतम(र)पदपक्षे न्यून- मप्यन्तरालं समावेशानुरोधेन ! पिशीलमात्रत्वपक्षे समावेशानुरोधेनान्तरालकल्पना द्रष्टव्या । तत्र पिशीलं पञ्चधा वदन्ति बाढोरन्तरालमेकं बद्धमुष्टीरनिद्वितीयमरनि- स्तृतीयं द्वात्रिंशदङ्गुले चतुर्थ पट्त्रिंशदङ्गुलं पञ्चममिति । पिंशत्यमुलं षष्ठमिति केचित् । परिमण्डलत्वपक्षे क्षेत्रतः पिशीलमात्रत्वम् । प्रादेशमात्रत्वेऽप्येवम् । होतार- मतिक्रम्य न गच्छेदित्यस्मिन्कल्पे प्रत्यङ्मुखतोदङ्मुखता वा निवपने । धिणियानति- क्रम्य न गच्छेदित्यस्मिन्कल्प उदङ्मुखतैवेति ।

विभूरसीत्याग्नीध्रीयमाग्नीध्रागारे यथोत्तरेणान्तर्वेदि संचरो भवति ।

आग्नीप्रत्येदमानीधीयं धिष्णियम् । आग्नीधं च तदगारं चाऽऽग्नीधागारम् । भाग्नी- अस्यागारमाग्नीधागारमिति वा, तस्मिन्नानीधीयं धिष्णियं कर्तव्यं, तच्च यथोत्तरेणान्त- पेदि वेदिमध्यतो धिष्णियमुत्तरेणाऽऽयतनस्य गमनवेलायां पादस्पर्शो यावत्परिमिते मार्गे न भवति तावत्परिमितप्रदेशं संचरार्थमवशिष्य कर्तव्यमित्यर्थः । अग्नी: शरणे रमं चेत्यनेनानीच्छन्दाद्गृहे वाच्ये रण्प्रत्ययस्तस्माद्बुद्धाच्छ इति उछप्रत्यय- स्तस्येयादेशः । अगारशब्दो गृहवचनः । प्रवाण इत्यन्तो मन्त्रः ।

अन्तःसदसमितरान् ।

इतरान्मत्रावरुणादीनां विष्णियान् । सदसो मध्य इत्यन्तःसदसम् । अव्ययी- भावसमासोऽयम् । शरदादित्वात्समासान्तष्टच्प्रत्ययः ।

वह्निरसीत्यपरेण सदोबिलं पृष्ठ्यायां प्रक्रमे होत्रीयम् ।

अपरेण सदोबिलं सबसः पूर्वबिलस्यापरतः प्रक्रमेऽतीत होतुरिदं होत्रीय धिष्णिय भवतीत्यर्थः । होत्रीयमिति धिष्णियविशेषस्य नामधेयम् । एक्षाचां देश इति वृद्ध- संज्ञा विधायके सूत्रे वा नामधेयस्य वृद्धसंज्ञा वाच्येति होत्रीयशब्दस्य धिष्णियविशेष- नामधेयत्वाद्धसंज्ञायां वृद्धाच्छ इति च्छप्रत्ययस्तस्येयादेशः । अत्रैनपा प्रक्रमात्मक- मेव सामीप्यं विवक्षितं वचनात् । अन्तःसदसमित्यनेनापरबिलस्य व्यावृत्तिः । बिल. शब्दोऽत्र द्वारवाची, सदापसानिध्यादन्यस्य बिलस्यासंभवात् । हव्यवाहन इत्यन्तो मन्त्रस्य।.

श्वात्रोऽसीति दक्षिणेन होत्रीयं मैत्रावरुणस्य ।

पञ्चदशाङ्गुलपदप्रभृतिमानपक्षे प्रादेशान्तरालसंभवाद्वादशाङ्गुलपदप्रादेशयोस्तुल्य. स्वात्तावत्परिमितमेवान्तरालम् । तथा च दक्षिणेनेत्येनपाऽत्रापि तावदेव सामीप्यं विवक्षितं भवति । दशाङ्गुलद्वादशाङ्गुलाम्पतम(१)पदमानपक्षे प्रादेशान्तरालासंभवा-