पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७स पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ७२५ द्यावदर्थमन्तरालम् । घिणियानां पिशीलमात्रत्वपक्षे तु प्रादेशान्यूनमेवान्तरालम् । एवमग्निमेष्वपि विष्णियेषु द्रष्टव्यम् । देव्यौ प्रशास्तारौ मित्रावरुणौ । एतस्यापि मानुषप्रशास्तृत्वेन मित्रावरुणतुल्यत्वात्तदीयकर्मकर्तृत्वाद्वा मित्रावरुणलिनकाज्याप्र. वक्तृत्वाद्वा मैत्रावरुणत्वम् । मित्रावरुणयोः प्रशास्तृत्वं मित्रावरुणी प्रशास्तारौ प्रशा. स्तादित्यस्मिन्प्रवरणवाक्य भाम्नातम् ! मैत्रावरुणस्यैव प्रशास्तेति संज्ञान्तरम् । प्रशा. स्वर्य नेति प्रस्थितयाज्याप्रैषात् । प्रकर्षेण सर्वान्प्रेष्पाञ्छास्तीति प्रशास्तेति तदर्थः । प्रचेता इत्यन्तः ।

उत्तरेण होत्रीयमुदगायतानितरान् ।

अत्राप्यन्तरालव्यवस्था पूर्ववद्रष्टव्या । होतृधिष्ण्यस्य सामीप्यं ब्राह्मणाच्छसिविष्ण्यं. यावदन्तरालं भवति तावद्विवक्षितम् । एवमुत्तरोत्तरेष्वपि क्षेयम् । नचैनप्रत्यय- बलात्सर्वधिष्ण्याना होतृधिष्ण्यसंलग्मनैव कुतो न करप्यतेऽपरेणाऽऽहवनीयं बनमान मात्री वेदि करोतीतिवदिति वाच्यम् । सर्वेषां होतृधिष्यसंलग्नताबा एवासंभवेनैतादृश- कल्पनाया दूरापास्तत्वादुमायतानितिवचनविरोधाच । नचैनप्प्रत्ययविरोधः । होतृ. धिष्ण्यस्येतरेषां धिष्ण्यानां च मध्ये यावदन्तराल तावत एव सामीप्यस्यात्रानायत्या विवक्षणात् । नच होतृधिष्ण्यस्य मैत्रावरुणब्राह्मणाच्छंप्तिधिष्ण्ययोरेव संलग्नत्वमेवास्तु संभवात् , इतरेषामपि परस्परमेवमेव सजातीयत्वसंपादनायेति वाच्यम् । अन्तरालाभावे वस्वधिष्ण्योत्तरेण गमनासंभवापत्तेः । नचाङ्गुलात्मकमेवान्तरालमस्त्विति वाच्यम् । एतावत्परिमितान्तरालप्रदेशस्य गमनक्रियायामयोग्यत्वात् । एवं च यावताऽन्तराले. नाऽऽयतनस्य गमनवेलाया पादाघातो न भवेत्तावदन्तरालं मध्ये कर्तव्यमिति सिद्ध मवति । धिष्णियानां पश्चदशाङ्गुलपदप्रभृतिमानपक्षे प्रादेशान्तरालान्यूनमेव । अन्य- थाऽधारणधर्मेणोपवेशनानुपपत्तेः । नचेष्टापत्तिः । अङ्गप्रधानार्थोपवेशनाङ्गभूताङ्क- धारणधर्मकोपवेशनबाधापेक्षया केवलधिष्ण्यसंलग्नत्वादिरूपनवर्षबाधस्यैवोचितत्वात् । अथवा दक्षिणेन होत्रीयमुत्तरेण होत्रीयमित्यत्र द्वितीया षष्ठ्यर्थे । दक्षिणेनोत्तरेणेति- पदद्वयं दक्षिणत उत्तरत इत्यर्थक विभक्तिप्रतिरूपकमव्ययं, तेन सामीप्यस्यानपेक्षणे सिद्ध मध्येऽन्तरालसिद्धिः । दशाङ्गुलद्वादशाङ्गुलान्यतम(र)पदमानपक्षेऽधारण- संकोचः स्थलालाभनिमित्तकसंकुचितपदमानानुरोधेनानायत्या स्वीकर्तव्यः । स्त्री कुर्वन्ति चेदानी शिष्टाः । तत्प्रयुक्त शालामुखीय तत्तदुपवेशनकाले कालव्यवधाने पति मेदेन तदन्यवधाने सकृत्सर्वादानौपवतध्ये सौत्येऽहनि च सर्वप्रायश्चित्तं होतव्यं न वा । उदगायतानुदास्थान् । उद्गायतानितिवचनं होतृधिष्ण्यस्योत्तरतो ब्राह्मणाच्छति धिष्ण्यं सान्तरालं तत उत्तरतः पोतृधिष्ण्यं सान्तरालं तत उत्तरतो नेपृधिष्पं सान्त. १ ख, ग, 'शान्न्यून।