अत्रा55पस्तम्बः- ७ स०पटल: ] गोपीनाथभट्टकृतज्योत्स्नान्याख्यासमेतम् । ७२३ मणमिति नियमः पर्यवस्यति । यदिशब्दान्नैमित्तिकत्वमेतस्यापि जपस्य । सदोविमाना- नन्तरमसंस्थिते सोमे नाध्वर्युः प्रत्यङ्मदोऽतिक्रामेत् । तया च श्रुतिः-नासस्थित सोमेऽध्वर्युः प्रत्यङ्सदोऽतीयादिति । अत्रापि सोमसंस्थाऽवभृथपर्यन्तैव ग्राह्या । -नाध्वर्युः प्रत्यङ्स दोऽतीयाद्धिणियान्होतारं वेति । सदस्यपि धिष्णियानतीत्य न गच्छेत् । तत्र तु होतारं वेत्यस्मिन्कल्पे धिष्णियातिगमनेऽपि न दोषः । अत्र श्रुतिरपि-प्राणा वा एने यद्धिष्णिया यदध्वर्युः प्रत्यधिष्णियानतिसपें. प्राणान्संकर्षे प्रमायुकः स्यान्नाभिर्वा एषा यज्ञस्य यद्धोतोयः खलु वै नाम्य प्राणोs- 4 याङपानो यदध्वर्युः प्रत्यङ्हातारमतिसर्पदपाने प्राण दध्यात्ममायुकः स्यादिति । अत्र परिगृहीतपक्ष एवाऽऽन्तं स्वीकर्तव्यः । अन्यथा दोषाभावमेवैकतरपक्षं गृहीत्वा संपा- घेत । विष्णियसंबन्धिकर्मसु घिष्णियानतिक्रम्य गमनं निषिद्धम् । इतरकर्मसु होतारम- तिक्रम्य गमर्न निषिद्धमिति व्यवस्थितविकल्पो वाऽयम् ।
अत्रोपरवकर्मैके समामनन्ति ।
पूर्वोपरवकर्म यदुक्तं तत्तत्र न कर्तव्यं किंतु अत्रास्मिन्काले कर्तव्यमित्येक आचार्या वदन्तीत्यर्थः ।
चात्वालात् पुरीषमाहृत्य धिष्णियान्निवपति चतुरश्रान्परिमण्डलान्वा ।
पुरीषार्थ चात्वालं पुनरधस्ताखात्वा तस्मात्पुरीषमाहृत्याऽऽहार्य वा विणियाना- यतनानि निवपति करोतीत्यर्थः । चतुर्थे द्वितीया वा। सा च तादये, तेन विष्णियार्थ तत्तत्स्थाने निवपतीत्ययों भवति । सप्तम्यर्थे वा द्वितीया, तेन धिष्णिय- स्थानेषु निवपतीत्यर्थों मवति । निवपनं तत्तत्यदेशे पुरीषप्रक्षेपणम् । चात्वालाद्धिष्णि. यानुपवपतीति श्रुतौ यदपवपनमुक्तं तन्निवपनमेव । न्यन्ये विग्णिया उप्यन्त इत्यनुवा. दात् । अथ याचति स्फ्यमुदपात्रं चात्वालात्पुरोष सिकता इत्येतत्समादायेति, आनीथं इत्या स्पयनोद्धत्यावोक्ष्य चात्वालात्पुरीषं सिकता इति निवपतीति, अथैनं सिकताभि- रानाशिनं करोतीति च बौधायनः । आनाशिनं प्रकाशवन्तम् । ते च धिष्णियाश्च- तुरश्राः परिमण्डला वा भवन्ति । तथा च शुल्बसूत्रे-पिशीलमात्रा मवन्तीति विष्णि. यानां विज्ञायते चतुरश्रा इत्येकेषां परिमण्डला इत्येकेषामिति । यदि सौमिकेषु विष्णि- येषु शुल्बसूत्रोक पिशीलप्रमाणं सिंहावलोकनन्यायेनाऽऽकातितत्वादुपयुज्यत इति कल्प्यते तदा समावेशानुरोधेन पञ्चविधपिशीलान्यतमपिशीलमानेनैव विष्णियाः कल्प- नीयाः । अस्मिन्पक्षे प्रादेशान्तरालता न भवति असंभवात् । इदं च पदमानपक्षे । वस्तुत इदं पिशीलमानमाग्निकेषु विष्णियेप्येव न सौमिकेषु । चतुरश्रान्परिमण्डलान्वेत्य- स्योभयत्रोपादानयपित्तौ सौमिकेषु पिशीलप्रमाणानियमरूपापनार्थत्वेनैव सार्थक्यस्य