पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ स०पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ७२१ दिसदापक्षे समं स्यादश्रुतत्वादिति न्यायान्मध्ये दक्षिण उत्तरे च त्रीणि त्रीण्येव । एकादशच्छदिसदाःपक्षे मध्यदेशस्य प्रधानत्वान्मध्ये पञ्चेतरयोस्त्रीणि त्रीणि । पञ्चदश- च्छदिसदःपक्षे पञ्च पञ्चैव सर्वत्र समं स्यादश्रुतत्वादिति न्यायात् । सप्तदशच्छदिसदः- पक्षे मध्ये सप्त मध्यदेशस्य प्रधानत्वात्, इतरयोः पश्च पञ्च । एकविंशतिच्छदि- सदःपक्षे सप्त सप्तैव सर्वत्र, समं स्यादश्रुतत्वात्, अपि पा कर्मवैषम्यात्, भतुल्याः स्युः परिक्रये समाख्यांविधिश्रुतौ परिक्रयान(न) कर्मण्युपपद्यन्ते (ते) दर्शनाद्विशेषस्य तथाऽभ्युदय इति न्यायत इति द्रष्टव्यम् । अयं न्यायो जैमिनिना दशमाध्याये तृती- यपादे दर्शितः। सूत्रार्थस्तु अश्रुतत्वाद्विशेषाश्रवणात्समो विभागः स्यादिति प्रथमसूत्रार्थः । अपि वेत्यनेन साम्यं व्यावय॑ते समो विभागो न भवति किं तु कर्मणो वैषम्याकस्य- चित्कर्म बहुप्रयास कस्यचित्कर्माल्पायातमित्येवं कर्मणो वैषम्यात्प्रयासानुरूपेण विभाग इति द्वितीयसूत्रार्थः । परिक्रयेऽतुल्याः स्युः समा न स्युः समविभागा न स्युरिति यावत् । कस्मिविषय एषामतुल्यत्वमित्याकाङ्क्षायां परिकय इति । परिक्रयविषय इति तदर्थः । तेन परिक्रयातिरिक्तविषये विशेषाश्रवणे साम्यमेवेति प्रदर्शितं मवति । अतुल्यत्वे हेतुमाह-समाख्याविधीति । द्वादशाहेऽध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयतीत्यादिवाक्येऽर्धिनो दीक्षयति तृतीयिनो दीक्षयति पादिनो दीक्षयतीत्यत्राधि- समाख्यया ब्राह्मणाच्छंस्यादीनां तृतीयसमाख्ययाऽऽग्नीधादीनां पादिसमाख्यया पोत्रा- दीनां व्यवहारदर्शनाद/दिसंबन्धं विनाऽदिव्यवहारायोगात्प्रधानेभ्यो ब्रह्मादिभ्यो यद्दीयते तस्यार्धे ब्राह्मणाच्छंस्यादिभ्यस्तृतीयांश आग्नीधादिभ्यश्चतुर्थांशः पोत्रादिभ्यो देय इति नियमः करप्यते । अर्धित्वादिसमाख्याकल्प्यो विधिः समाख्याविधिः, एत- प्रतिपादकश्रुतौ परिक्रयाद्वैषम्यमुपपद्यते न परिकयव्यतिरिक्त कर्मण्युपपद्यते वैषम्यं विशेषस्य तस्या(थाs)भ्युदयेऽभ्युदयेष्टौ ये मध्यमाः स्युस्तानग्नये दात्र इत्यादि- श्रुत्या विशेषस्य साम्यविषयस्य प्रदर्शनादिति । तत्र येषु ऋतुषु च्छदिःसंख्यानियमो नास्ति तेषु तत्तत्संस्थानुरोधेन काम्यानां प्रकृतावेत्र निवेश इति न्यायाङ्गीकारे नव च्छीष्येतेषु नेतरे पक्षाः । काम्यं नवच्छदित्वमपि न ।

कटाꣳस्तेजनीश्च प्रवर्तं छदिषामन्तरालेष्वन्ववस्यन्ति तानन्तर्वर्ता इत्याचक्षते परि त्वा गिर्वणो गिर इत्यभितः परिश्रयतः पूर्वमपरं च द्वारे कुरुतोऽध्वर्युर्दक्षिणां द्वारेयीं परिषीव्यति प्रतिप्रस्थातोत्तरामिन्द्रस्य स्यूरसीति सीव्यत इन्द्रस्य ध्रुवोऽसीति ग्रन्थी कुरुतस्तौ प्रज्ञातौ भवतः ।

इन्द्रस्य ध्रुवोऽसीत्यनेनेन्द्रस्य ध्रुवमप्तीति विकल्पते । अन्यद्धविर्धानविमानसूत्रवघ्या. ख्येयम् । १ ख. ग. पवाभ्युदयष्टौ ।