७२२ सत्याषाढविरचितं श्रौतसूत्रं- [ ७सप्तमप्रभे-
ऐन्द्रमसीन्द्राय त्वेति संमितमभिमृशतः ।
संमितं विमितं सदः।
प्राग्वꣳशस्य सदोहविर्धानयोश्च ।। २० ।। समानꣳ सांकाशिनम् ।
संकाशयतीति संकाशनम् । नन्द्यादित्वाल्ल्युः । युवोरनाकावित्यनादेशः । सांकाश- नमिति पाठे संकाशनमेव सांकाशनमिति स्वार्थे ऽण्प्रत्ययं कृत्वा समर्थनीयः । सांका. शिनमितीकारविशिष्ट पाठस्त्वार्ष एव । सांकाशनं संदर्शनं सर्वतो दर्शनं तदेषां समान भवति । यथैकत्र स्थितः सर्वानपि पश्येत्तथाऽऽजवेनैषां द्वाराणि कार्याणीत्यर्थः । प्राग्वंशस्यासमासेन निर्देशस्तत्तत्कामनानिमित्तदक्षिणाप्रत्यगुत्तरदिगन्यतमे केवलैकद्वा- रनिमित्तकप्राग्वंशप्रारदाराभावहेतुकतुल्यतांकाशनत्यानित्यत्वनिबन्धनः ।
नासꣳस्थिते सोमेऽध्वर्युः पूर्वेण द्वारेण हविर्धाने प्रविश्यापरेण निष्क्रामेद्यदि निष्क्रामेदिदं विष्णुर्विचक्रम इति जपेत् ।
सोमे सोमसंबद्धे तन्त्रेऽसंस्थितेऽसमाप्ते सतीत्यर्थः । सोमसंबद्धतन्त्रसमाप्तिस्तु भवभृथ एव भवति तावत्पर्यन्तोऽयं निषेधः । अवभृथे यद्यपि साक्षात्सोमसंबन्धो नास्ति तथाऽप्यूजीषसोमलिप्तपात्रद्वारा संबन्धोऽस्ति अतोऽवभृथपर्यन्तमस्त्येव निषेधः । अमुमर्थमाह बाधूलः-नाऽवभृथादध्वर्युः पूर्वेण द्वारेण हविर्धाने प्रविश्यापरेण निष्का- मेद्यदि निष्कामेदिदं विष्णुरिति जपेदिति । आऽवभृधादिति पदच्छेदः । अवभृथपर्य- न्तमिति तदर्थः । इदमुलक्षणमपरेण प्रविश्य पूर्वेण निष्क्रमणं नेत्यापस्तम्बोक्तस्य निषेधस्य । एवं च येन द्वारेण प्रवेशस्तेनैव निष्कमणमिति नियमः पर्यवस्यति । यदि. शब्दानमित्तिकत्वमेतस्य । अध्वर्युग्रहणमितरेषामखिजां व्यावृत्त्यर्थम् । तेनाध्योरेवायं निषेधः । नच प्रतिप्रस्थातृनेघुन्नेतृणामप्यध्वर्युत्वात्तत्परोऽप्ययं निषेध इति वाच्यम् । एकवचनविरोधापत्तेः । यदि प्रतिप्रस्थातृनेष्टुनेतृग्रहणमिष्टं स्यात्तदा तामध्वर्यव उद्गु- न्तीत्यत्रेवात्रापि ब्रूयादेव । नमन तथोक्तमतोऽध्वयोरेव निषेधः । एतेनैकवचनस्य जात्यभिप्रायकत्वकल्पना निरस्ता भवति । एवमुत्तरसूत्रेऽपि द्रष्टव्यम् ।
नापरेण सदः प्रविश्य पूर्वेण निष्क्रामेद्यदि निष्क्रामेदुत्तिष्ठन्नोजसा सहेति जपेत् ।
असंस्थिते सोमेऽध्वर्युरित्यनुवर्तते । इदमुपलक्षाणं पूर्वेण द्वारेण सदः प्रविश्यापरेण निष्क्रमणं नेत्यापस्तम्बोक्तस्य । अयमप्यवभृथपर्यन्त एव निषेधः । तथा च वाधूल:- नाऽवभूषाध्वर्युर परेण सदः प्रविश्य पूर्वेण निष्कामेद्यदि निष्कामेदुत्तिष्ठन्नोजसा सहेति जपेदिति । आऽवभृथादित्यत्रापि पदच्छेदः । अत्रापि येन द्वारेण प्रवेशस्तेनैव निष्क- १ ख, ग, तमके ।