७२० सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्रभे- नीचत्वार्थकम् । उच्चैरित्यव्ययमुच्चत्वार्थकम् । समस्ते ऋतावर्थ श्रूयमाणं यजमानः कामयते तथा नित्येषु यज्ञाङ्गेषु यानि तु कामयतिः श्रावयतीतिसूत्रात् । अत्र कमि. धातुश्रवणात्संकल्पोऽत्र यनमानेन कार्यों वृष्टि कामो नोचैः सः करिष्ये, अवृष्टि- काम उच्चैः सदः करिष्य इति । कामयतिः कमिधातुः । इश्तिपो धातुनिर्देश इति सूत्रात् (वातिकात् )श्तिप् । विपरीतमेके समामनन्ति यत्पूर्वस्य फलं तदुत्तरस्य यदु. तरस्य फलं तत्पूर्वस्येति विपरीतशब्दार्थः । सदसो नीचस्त्वोचस्त्वे औदुम्बर्याः स्थूणानां च नीचोच्चत्वाम्यामिति द्रष्टव्यम् ।
नव च्छदीꣳष्युपक्लृप्तानि भवन्ति।
एतद्दिवाससंबध्यनुष्ठानारम्भात्यागेवोपकल्पनम् । अर्थः स्पष्टः ।
उदीचो वꣳशानाधाय प्राचो वꣳशानादधाति ।
वंशान्वेणून्वंशानिति बहुत्वमविवक्षितम् । तेन संभव एकस्य वंशस्य वेणोयो वंशयोर्वेण्वोरप्याधानम् । उदीच उदगग्रान्प्राचः प्रागग्रान् । आधानं स्थापनम् ।
ऐन्द्रमसीति त्रीणि मध्यमानि छदीꣳष्युदञ्चि निदधाति ।
मन्त्रावृत्तिरेकवचनात् । ऐन्द्रमसीत्येकै मध्यमं छविरुदगग्रं निदधाति । एतावा- नेव मन्त्रः। ऐन्द्रमसीत्येकैक मध्यमानि छहीष्यधिनिदधातीति भरद्वाजः ।
इन्द्रस्य सदोऽसीति त्रीणि दक्षिणानि विश्वजनस्य छायेति त्रीण्युत्तराणि ।
एतेन नवच्छदि सदो भवतीत्युक्तं भवति । उभयत्रापि मन्त्रावृत्तिः । एकवचनात् ।
दक्षिणान्युत्तराणि करोत्यौदुम्बरीमभिसंमुखानि ।
दक्षिणानि च्छदौषि उत्तराणि सर्वेषामुपरिशयानि करोतीत्यर्थः । दक्षिणान्युदग- ग्राणि उत्तराणि दक्षिणाग्राणीति औदुम्बरीमभिमुखानीमस्यार्थः । संशब्दः सम्य. वश्लेषणार्थः।
नवछदि तेजस्कामस्य मिनुयादितिब्राह्मणव्याख्यातानि काम्यानि छदीꣳयपि तेषां याथाकामी ।
नवदि तेजस्कामस्य मिनुयादित्यादि यद्राह्मणं तेन व्याख्यातानि उक्तानि काम्यानि कामायाणि नवादिसंख्याविशिष्टानि छदींषि तेषां कामानां तेजआदीनां मध्ये यः कामस्तत्संबन्धिपक्षोऽङ्गीकर्तव्य इत्यर्थः । याथाकामीत्यत्र ताच्छील्ये णिनिः । अत्रापि कमिधातुश्रवणात्संकल्पो यजमानेन कार्योऽमुककामोऽमुकच्छदि सदः करिष्य इति कामनानुरोधेन । नवच्छदिपक्षो नित्योऽपि । त्रीणि मध्यमानि श्रोणि दक्षिणानि त्रीण्युत्तराणीति नित्यविधिवलान्नवउद्यग्निष्टोमस्य मिनुयादिति भरद्वानोक्तश्च । नवच्छ. "