पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७स०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । निखाताद्यजमानमात्री भवतीत्यन्ये । संकोचे प्रमाणाभावात् । निखातव्येन प्रदेशेन सहैव यजमानमात्रत्वमित्येव युक्तम् । यजमानमात्रीत्यनेनौदुम्बर्या ऊर्ध्वप्रमाणं दर्शि- तम् । स्थौल्यं तु दायानुरोधेनैव सिद्धम् । यजमानमा यौदुम्बरी पर्षिष्ठा स्थूणाना भवतीति. भरद्वाजेन स्पष्टमेवोक्तमेतत् । परायीन्येकेन क्रियेरन्यथाकपालेनोपवपति यजमानेन समितीदम्बरी भवतीत्युदाहरणादपि औन्दुम्बर्या उर्ध्वप्रमाणं ज्ञेयम् । इदं चोदाहरणं द्वादशाहविषये । तत्राने कयजमानोपस्थितावेकेन येन केनचिद्यनमानेन गृह- पतिसंज्ञकेन मुख्येन यनमानेन वा समितौदुम्बरी भवतीति । यजमानमाञ्यौदुम्बरी तत्संमितास्तया संमितास्तावत्प्रमाणा वर्षिष्ठा अतिशयेन वृद्धा इति वर्षिष्ठाः । अति- शायने तमविष्ठनाविति वृद्धशब्दादिष्ठन्प्रत्यये प्रियस्थिरास्फिरोबहुलगुरुवृद्धेत्यनेन बृद्धशब्दस्य वर्ष इत्यादेशे रूपम्। वृद्धशब्दः पुरातनपर्यायः । स च दाढ्य लक्षयति । सेनातिशयेन दृढा इत्यों भवति । स्थूणा द्विशाखास्तम्भाः। उत्तरत्र पर्यन्त्यानां प्रमा- णविशेषविधानात् । औदुम्बरीसादृश्याच यजमानमात्रीसमिता इत्यनेन मध्यमा एव स्थूणा अत्र प्रायाः । मिनुत इति द्विवचनात्स्वस्वभागस्थाः स्थूणा उभाभ्यां सहैव मातव्याः । दक्षिणभागस्थास्तिस्रोऽध्वर्युणा । उत्तरभागस्थास्तिस्रः प्रतिप्रस्थात्रा । बहु- त्वस्य प्रत्येकमन्वयात्तस्य च त्रित्वे पर्यवसानात्तिस्वस्तिस्त्रः । अधिकपयोजनेऽधिका अपि । यथा सुष्टु यथा दृढं सदो भवति तथा स्थूणा कार्या इत्यर्थः ।

पर्यन्त्या नाभिदघ्ना ओदुम्बरीमभ्यग्ना मिनोति ।

पर्यन्ते प्रान्ते भवाः पर्यन्त्याः । दिगादित्वाद्भवा यत्प्रत्ययः । अत्र भवनं नोत्पत्ति- रसंभवात्, किंतु सत्ता सा च भाविनी ग्राह्या । अथवा पर्यन्तमहन्तीति पर्यन्त्याः खलयवभाषतिलवृषब्रह्मणश्चेत्यत्रत्येनानुक्तसमुच्चयार्थेन चकारेण पर्यन्तशब्दादपि यत्प्र. त्ययो भवति। नामिदना नाभिप्रमाणाः पादावारम्प नाम्यवधिकं यावत्प्रमाणं तावत्प्रमाणा इत्यर्थः । एकप्रमाणोपस्थितौ मात्रज्दघ्ननोस्तिर्यगूर्वव्यवस्थया प्रयोग इति नियमो नास्ति । औदुम्बरीमभ्यया औदुम्बर्यभिमुखामाः सर्वाः स्थूणा मिनोतीत्यर्थः । औदुम्बरी- मभिनम्रा इति यावत् । नम्रत्वमेवाभिमुखत्वमत्र प्रकारान्तरस्यासमवात् । मिनोतीत्ये. कवचनादध्वर्युणैव पर्यन्त्याः सर्वा मातव्याः । यथा सुष्टवित्यत्राप्यन्वेति ।

नीचैः सदो वृष्टिकामस्य मिनुयादुच्चैरवृष्टिकामस्य विपरीतमेके समामनन्ति ।

नामिदन्नं नित्यं प्रमाणं ततोऽपि किंचिन्नी चैींचं सदो वृष्टिकामस्य यजमानस्प मिनुयात् । किंचिदुरुचं सदोऽवृष्टि कामस्य यजमानस्य । अवर्षणे सति वृष्टिकामना । अतिवर्षणे त्ववृष्टिकामना । इदं च यदैवैनं यज्ञ उपनमेत, अथाऽऽधीत सैवास्यधिार- तिश्रुत्यनुरोधेन यदा वर्षासु सोमपूर्वाधानं क्रियते तदैतत्संभवा द्रष्टव्यः । नीचैरित्यज्ययं