पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१८ सत्याषाढविरचितं श्रौतसूत्रं- [सप्तमप्रश्ने-

द्युतानस्त्वा मारुतो मिनोत्वित्यवटेऽवदधाति ।

अत्र वाऽवट खानयति परिकर्मिभिः । धर्मणेन्त्यन्तो मन्त्रः । अवेटेऽवधानं स्थाप- नम् । अत्रापि प्राचीनकर्णीमुद्रात्रा सहेत्यनुवर्तते । स्पष्ट माहाऽऽपस्तम्बः-युतानस्त्वा मारुतो मिनोस्विति प्राचीनका सहोदात्रा मिनोतीति ।

पर्यूहणं परिरक्षणं परिषेचनं च यूपे व्याख्यातम् ।

ब्रह्मवनि त्वेति पुरीषेण पyहणं ब्रह्म दृहेति मैत्रावरुण दण्डेन परिहणमुन्नम्भयेति प्रदक्षिणमपां परिषेचनमित्येतत्रितयं यूपे यूपनिमित्त के कर्मणि व्याख्यातमुक्तं यथा तथाऽत्र कर्तव्यमित्यर्थः ।

तस्याः कर्णे विशाखे वा हिरण्यं निधाय घृतेन द्यावापृथिवी आपृणेथाꣳ स्वाहेति स्रुवेणाभिजुहोति ।

कर्णः क्षुद्रशाखामूलम् । विशाख इत्यौदुम्बर्यवयव विशेषविशेषणम् । विगता शाखा यस्मादषयवात् । एतादृशोऽयात्मकोऽवयवः । तत्र वा हिरण्यं निधायाभिजुहोतीत्यर्थः । अथवा विशिष्टा शाखा यस्मादवयवात्तस्मिन्वेत्यर्थः । अस्मिन्व्याख्याने यस्मिन्प्रदेशे महती शाखा तादृशेऽवयवे हिरण्यनिधानं भवति । नुवग्रहणं जुहूव्यावृत्यर्थम् । स्थापितं हिरण्पमभिलक्षीकृत्यौदुम्बर्युपर्येव होमः कर्तव्य इत्येतदर्थ द्योतयितुमथनौदुम्ब यौभिमुख्यार्थको वाऽभिः । जुहोति चोदितत्वादेव स्वाहाकारे सिद्धे स्वाहेतिवचनं मूळ आज्ये प्राप्ते सत्येव स्वाहाकारः कर्तव्योऽवसावणं तु मन्त्रारम्भतम कालं पूर्वमेवेत्यर्थ- विशेष द्योतयितुम् । तथाच कात्यायन: --भूमि प्राप्ते स्वाहाकार इति । भूमि प्राप्ते सत्याज्ये स्वाहाकारः कर्तव्य इत्यर्थः । मन्त्रस्याल्पत्यास्क्रिपाया दीर्घत्वान्मन्त्रारम्भ काले- त्वमवस्त्रावणक्रियारम्भस्यासंभवान्मन्त्रान्तेऽत्र क्रिया न । एतेनावस्त्रावणस्य धारारूपत्या- दाघारे धारायां चाऽऽदिसंयोग इत्यापस्तम्बोक्तपरिभाषाहीकारो ज्ञापितो भवति । एने- नार्थीदिदमपि सिध्यति अत्र मन्त्रपाठो विलम्बितवृत्त्येति ।

आमूलादन्ववस्रावयति ।

आत्रामिव्याप्तौ । औदुम्बर्या मूलममिव्याप्येत्यर्थः । तथा चाग्रमारभ्य मूल. पर्यन्तमौन्दुम्बरीमनुलक्षीकृत्यावाधः स्रावयति । मूलपर्यन्तं स्त्रावित आज्ये भूमिप्राप्त भवत्येव तयोः संवद्धत्वात् । तथा च मूलं प्राप्तमाज्यं भूमिप्राप्तमेव तत्रैव स्वाहाकार इत्यर्थः ।

यजमानमात्रीसंमिता वर्षिष्ठाः स्थूणा मिनुतो यथा सुष्ठु ।

यजमानमात्री यजमानप्रमाणा यावधनपानस्योर्ष प्रमाणं तावत्प्रमाणौदुम्बरी- त्यर्थः । यूपे दर्शनाद्भूमौ निखातव्येन भागेन सह यजमानमात्रीति केचित् । उर्व १ ख ग "लम