पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ७ स०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ७१७ कश्चन विशेष उक्त:- -औदुम्वर्येषा स्थूणा प्रक्षालिता प्रपन्ना प्रागवटादुपशेत इति । अपना तीर्थेन प्रपादिता।

अपामवनयनं यवप्रासनं बर्हिषाऽवस्तरणं च यूपे व्याख्यातम् ।

शुन्यता लोक इत्यपामवनयनं यवोऽसि यवयेति यवप्रासनं पितृणार सदनमतीति पहिषाऽवस्तरणं यूपे यूपनिमित्तके कर्मणि व्याख्यातमुक्तं यथा तथाऽत्र कर्तव्यमि. त्यर्थः । चकारः प्रोक्षणेऽनुक्तस्य यवमिश्रितत्वस्य समुच्चयार्थः । उक्तं च यवम. तीभिः प्रोक्षणीभिरोदुम्बरी प्रोक्षतीति भरद्वाजेनापि यवमिश्रणम् ।

उच्छ्रयस्व वनस्पते सजूर्देवेन बर्हिषेति प्राचीनकर्णामुद्गात्रा सहोच्छ्रयत्युद्दिवꣳ स्तभानेति वा ।

प्राचीनः प्रागनः कर्णो यस्या उच्छ्षणकाले सा प्राचीनकणी । कर्णः क्षुद्रशाखा. मूलं स यथा प्राग्भागगतो भवति तथोच्छ्यति । व्यवस्थितविकल्पोऽयमेकस्मिन्प्रयोग एको मन्त्रोऽन्येप्वपर इति । तत्रापि आये प्रयोग आयो मन्त्र इतरेवन्त्यः । इदमेव ज्ञापयितुं शाखान्तरीयमन्त्रस्य प्रथममुपादानमेतत्प्रकरणपठितस्य स्वशाखा स्थस्यानन्तर- मुपादानम् । अनेन स्वशाखास्थस्यापि कर्मसंबद्धत्वं सिद्धं भाति । यत्र शाखा-तरीय- स्यैवोपादानं नतु स्वशाखास्थस्यापि तत्राऽऽर्थिको विकल्पः । वरुणस्त्वोत्तम्नास्वित्युप- स्तम्भनमन्त्रः शाखान्तरीयो वरुणस्य स्कम्भनमसीति स्वशाखागतः । तेन यज्ञकर्मार्थी मन्त्रा यथारूपमितर इति सूत्राभ्यां स्वशाखागतस्य वरुणस्य स्कम्भनमतीत्यस्य प्राप्तावे- कस्मिन्प्रयोगे द्वयोविनियोमासंभवाद्विकल्पः पर्यवस्यति । अयं विकल्प आपिकः । अत्राऽऽये प्रयोगेऽयमेव मन्त्रोऽन्येष्वयमेवेति नियमो न, किंतु ऐच्छिको विनियोग इति । एतादृशं भेदं प्रदर्शयितुमेवोपस्तम्भनादिषु स्वशाखास्थमनविनियोगावचनमौदुम्ब- युच्छूयणे तद्वचनमिति । आर्थिकविकल्पवाचनिकविकल्पयोरेतादृशो भेदः । नच प्रक्र: मात्तु नियम्यत इति परिगृहोतपक्षस्त्री कारनियमविधायकसूत्रविरोधः शङ्कयः । तस्य वैमृधोपकममात्र विषयत्वात् ।

रूपं कालोऽनिर्वापो देवताश्रपणं तथा । आदौ ये विधृताः पक्षास्त एत्र स्युः सदैव हि ।। इतिच्छन्दोगपरिशिष्टवचने पञ्चानामेव वणे तदतिरिक्तस्थले परिगृहीतपक्षवी. कारनियमस्याप्रवृत्तरेव प्रदर्शितत्वाच । नच पञ्चानां ग्रहणमितरवैकल्पिकपदार्थोप- लक्षणमिति वाच्यम् । उपलक्षणपरतायां प्रमाणाभावात् । अवशिष्टस्य मन्त्रस्य फलो. पधायककारणताया अभावेऽपि स्वरूपसत्येव कारणताऽरण्यस्थदण्डादीनामिव द्रष्टव्या । स्वेनोच्छूषणं कर्तुमशक्यं चेदुच्छ्रापयति । अयमों णिनर्थविवक्षया लभ्यते । उद्गीथां- शमुद्गायतीत्युद्गाता तेन सहित औदुभ्वरोमुस्थापयतरेत्यर्थः । द्वितीयो मन्त्रो दृश्हेत्यन्तः । ९१