पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्रभे-

दक्षिणेन पृष्ठ्यां प्रक्रमे मध्ये सदस औदुम्बर्यवटः ।

अत्र प्राची पृष्ट्या ग्राह्या । दक्षिणपदसाहचर्यात् । पृष्ट्याया दक्षिणप्रदेशे समीप एवैकं पृष्ठ्यासंलग्नमार्जवेन प्रक्रममानपक्षे प्रक्रमं पदमानपक्षे पदं मीत्वीदुम्बर्यवः आयामतो विस्तारतश्च सबसो मध्ये मवतीत्यर्थः । मध्ये सदस इति वचनात्तदनुरोधे. नैव पृष्ठमाया दक्षिणप्रदेश भार्गवेन प्रक्रमो मातव्योऽथवा पदं मातव्यम् । भनेन सांकाश्यं रक्षितं भवति । औदुम्र्युदुम्बरविकारभूता तस्या अवटो गर्तः ।

अभ्रेरादानं परिलेखनं च यूपे व्याख्यातम् ।

देवस्य त्वेत्यभ्रेरादानं परिलिखितमित्यवटपरिलेखनं च युपे यूपनिमित्तके कर्मणि व्याख्यातमुक्तं यथा तथाऽत्र कर्तव्यमित्यर्थः । अत्रैवावटं खानयति । अध्यादानपरि- लेखनयोरवटमर्यादाकरणार्थत्वेन तस्य चावटखननार्थत्वेनावटखननस्यार्थतोऽत्रैव सिद्धेर्द- शितप्रायत्वात्खात्वा प्रोक्षतीति भरद्वाजेन स्पष्टोक्तश्च । चकारोऽत्र खननार्थकप्रैषस्या- नुक्तस्य समुच्चयार्थः । स चानीदोदुम्बर्यवर्ट खनेत्येतावानेव । उपराभावादुपरसंमित- मित्यादिः प्रैषांशो लुप्यते । अत आग्नीध्रकर्तृकताऽवटखननस्य सिद्धा भवति । बौधायनेन तु श्रेषपूर्वकमुद्गातृकर्तृकमौदुम्बर्यवटखननमुक्तम् । प्राक्पुरीषस्योद्वपनमि- त्ययं विशेषश्चात्र तेनैवोक्तः । दायानुरोधेन गतः खननीयः ।

दिवे त्वेति परस्तादर्वाची प्रोक्षति ।

परस्तादग्रभागप्रदेशमारभ्यार्वाची मूलपर्यन्तं प्रोक्षति, यदीयोऽवटस्तमग्रेण स्थापन. मार्थिकम् । इयं प्रागनैव स्थापनीया । अवटोत्तराग्रस्थापने प्रोक्षणस्य दक्षिणापर्ग- तापत्तेः प्रत्यगपवर्गत्वापेक्षया दक्षिणापवर्गत्वस्य देवकर्मस्वतीव विरुद्धत्वात् । स्पष्टमेत- दाहाऽऽपस्तम्बः ---अग्रेणावटं प्राची निधायेति । प्रत्यगात्वं दक्षिणाग्रत्वं वाऽत एवं निरस्तं भवति । तूष्णी प्रक्षास्येत्यप्याह सः। अगं मध्यं मूलमित्येतादृशोऽत्र क्रमस्तक- मेण प्रोक्षतीति परस्तादर्वाची प्रोक्षतीत्यस्यार्थः । दिवे स्वेतिग्रहणं मन्त्रक्रमदर्शनार्थ न स्वेतावत एव मन्त्रस्य प्रोक्षणकरणत्वं न नेतरयोर्विकल्पार्थकत्वं चेति प्रदर्शयितुम् । तेन दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वेत्येतावता मन्त्रेणकप्रयत्नेन परस्तादर्वाची प्रोसतीत्यर्थः सिद्धो भवति । अमुमर्थमाह बौधायन:-तां परस्तादर्वाची प्रोक्षति दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्य त्वेतीति। पूर्वत्रौदुम्बर्या उपक्रान्तत्वात्तच्छब्देन तस्याः परामर्शः । अथवा दिवे स्वेत्यग्रस्य प्रोक्षणमन्तरिक्षाय त्वेति मध्यस्य पृषिव्य त्वेति मूलस्येत्येवं मन्नत्रयेणोदुम्ब- रीप्रदेशत्रयं *मन्त्रत्रयेण प्रोसतीत्यर्थः । भरद्वाजादिभिः स्पष्ट मेवमेवोक्तम् । परस्ताद- वांची प्रक्षितीतिवचनं यूपे दृष्टस्य क्रमान्तरस्य बाधनार्थम् । प्रोक्षणात्प्राग्यौधायनेन

  • मनत्रयेणेति अधिकम् ।