पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ स० पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ७१५ बौधायनेनोक्तः-उत्तरतउपचारत्वमत्र विशेषः, एतेन मान लीयो व्याख्यातस्तस्यो- दीची द्वारं कुर्वन्तीति ।

अग्रेणापरं वेद्यन्तं त्रिषु प्रक्रमेष्वपरिमिते वोदीचीनवꣳशꣳ सदो दक्षिणतः प्रतिकृष्टतरं यावदृत्विग्भ्यो धिष्णियेभ्यः प्रसर्पकेभ्यश्चाऽऽप्तं मन्यते ।

सद इत्यनन्तरं मिनोतीति शेषः । अपरस्य वेद्यन्तस्य मध्यशकुमारभ्य त्रीन्प्राच: प्राक्संस्थान्यक्रमान्प्रकम्य तत्र शकुं दद्यात् । स सदसः पश्चिमान्तस्तत आरम्यादी. चीनवंशं सदः साधयेत् । उदीचीनवंशमित्यनेन दक्षिणोत्तरदीर्घत्वं सदसः प्रदर्यते । सीदन्ति ऋत्विनः सोमभक्षणार्थ यत्रेति सदस्तत् । योगरूढं पदम्। दक्षिणतो दक्षिणे भागे- ऽतिशयेन प्रतिकृष्टमिति प्रतिकृष्टतरम् । द्विवचनविभज्योपपदे तरबीयमुनावित्यनेनाति- शयेऽर्थे तरप्प्रत्ययः । प्रतिकर्ष आधिक्यम् । तत्रातिशयः पदमानपक्ष एकपदात्मक: प्रक्रममानपक्ष एकप्रक्रमात्मकः । चतुर्विशाङ्गुलाद्यात्मकप्रकममानपक्ष एकारल्यात्मकः सांकाशनानुरोधेन खो कर्तव्यः । प्रतिकर्षे हेतुमाहाऽऽपस्तम्बः-दक्षिणतः प्रक्रमे पृष्ठयाया औदुम्बरी मध्ये सदसो मिनोति दक्षिणा सदः प्रतिकर्षेद्यथा सांकाशनस्यावि. रोधं स्यादिति । अस्याः-आयामतो विस्तारतश्च मध्ये सदस औदुम्बरी मिनोति दक्षिणतः प्रक्रमे पृष्ठयाया औदुम्बरी मिनोति यथा मध्ये सदो भवति तथा दक्षिणांशो विवृद्धः स्यात् । किमर्पमिति चेत्, शालामुखीयादीनां सांकाश्याविरोधो यथा स्यादिति । इतरथा ह्यौदुम्वर्या तिरोधीयत इति । भविरोधमित्यर्थाभावेऽव्ययीभाव इति । यावदृ- विभ्य इत्यादिनाऽर्थसिद्धपरिमाणत्वं प्रदर्शितम् । सदसोऽष्टादशपरेव मानमिति . नियमः परं नास्ति किं तु विष्ण्यादिसमावेशानुरोधेनाष्टादशपदेभ्यो न्यूनमधिकं वाऽपि भवतीति द्रष्टव्यम् । एतच्च नवारनि तिर्यक्सप्तविंशतिरुदगायतमिति सदसो विज्ञायतेऽ. ष्टादशेत्येकेषामितिशुल्बसूत्रोक्तमानद्वयेन विकल्पितं द्रष्टव्यम् । आपस्तम्बस्तु नवारनि. विस्तारं सप्तर्विशतिरुङगायतमपरिमित वेति । अपरिमितशब्द उक्तप्रमाणाधिकप्रमा- णवाची । यावदृत्विाम्य इत्यनेनाष्टादशारनितोऽपि न्यून मानं प्राप्यते । वेदिमध्ये कृत्स्नस्य सदसो निवेशो यथा भवति तथा मानं पदात्मक प्रक्रमात्मकं वा कल्पनीयम् । शुल्बसूत्रे सप्तविशतिरुदगायतमिति दक्षिणोत्तरदीर्घत्वविधानात्तिर्यशब्देनात्र प्राच्येव ग्राह्या । तन्नवारनिप्रमाणं भवति । अपरिमितत्वपक्षेऽपि प्राविस्तीर्ण नवारत्त्येव भवति विंशतिचतुर्विशत्यन्यतरसंख्यामलप्रक्रमेणाष्टादशारत्नि उदक्सप्तविंशत्यरस्नि । देशस्तु प्रयोगसूत्र एवोक्तः । तद्विहरणप्रकारः शुल्बसूत्रे-तदेकरज्ज्वोक्तं पञ्चदशि- कैनवापायम्पार्धपञ्चमैः श्रोग्यसानिहरेदिति । उदीच्पत्र पृष्ठया । -