पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१२ सत्यापाढविरचितं श्रौतसूत्रं- [७सप्तमप्रश्ने- पाषाण उपरः । मध्ये चर्मणो मध्य उपरं प्रथिष्ठम् । मध्य इति स्वतन्त्रवचनात्पृथगे. तस्य सादनम् । उपरस्य महत्त्वेन चतुर्भिावभिः सहाऽऽसादनासंभवात्पृथगारम्भः | अतिशायने तमविष्ठनाविति सूत्रेणातिशयितेऽर्थे पृथुशब्दादिष्ठन्प्रत्ययो र ऋतो हला- देलघोरित्यनेनेष्ठे परत कारस्य रकारः, टेरिति सूत्रेणेष्ठे परत उकारस्य लोपस्तेन प्रथिष्ठमिति रूपं भवति । पञ्चममिति वचनं कण्डनाधिकरणीभूतस्याऽऽकारविशिष्ट- स्थापि पापाणस्य यावत्वमस्तीति प्रदर्शयितुम् । प्रयोजनं यदि ग्रावा भिद्यतेत्यादिना विहितं प्रायश्चित्तमुपरभेदेऽपि भवतीति ।

बृहन्नसीत्येकैकम् ।

एकैकभित्यनेन पूर्व चतुर्णा ग्राणां तूष्णीमेव संसादनं कृत्वा मध्य उपरस्य तत. स्तूप्णीमेव संप्सादनं कृत्वा पुनमन्त्रेण प्रागादिदिक्षु क्रमेणैकैकं ग्रावाणं मध्य उपरं च मन्त्रेण संसादयतीत्यर्थो गम्यते । अन्यथा मन्त्र एकवचनश्रवणात्सुसंभृता त्वा संभ- रामोति मुष्टिष्विव प्रत्येक मन्नप्राप्तावेककमित्यस्य वैयपित्तेः । एवं चेदं ज्ञायते युगपदासादनस्य फलं विजातीयमदृष्टम् , एकैकासादनस्य ततो विलक्षणमदृष्टं फल- मिति । तत्र युगपदासादनस्य प्रागादिषु दिक्षु कर्तुमशक्यत्वादुपरस्य चर्मणो मध्ये संसादनविधानान्ग्राणां चर्मणो दक्षिणोत्तरप्रान्तयोः पश्चिमपूर्वप्रान्तयो संसादनम् । तत्र दक्षिणेन हस्तेन द्वयोणिोरेकस्मिन्प्रान्ते सव्येन हस्तेन द्वयोरेकस्मिन्नित्येवं युग- पदासादनम् । एकैकस्य संसादनमपि चर्मण्येव । उपरे ग्राव्णः संमुखान्कृत्वेत्युपराधि. करणत्वस्य विधास्यमानत्वात् ।

रक्षोघ्नो वो वलगघ्नः प्रोक्षामि वैष्णवानित्युपरे ग्राव्णः संमुखान्कृत्वा प्रोक्षति ।

स्थूलप्रदेशो मुखं येन सोमः कण्ड्यते । सार्धप्रादेशमात्रः स्यादृढपाषाणनिर्मितः । वर्तुलः सूक्ष्म एकत्र स्थूल एकत्र वै भवेत् ॥ पाडगुलपरीणाहो मुख(ख) तु स्थौल्यमीरितम् । अगं सूक्ष्मप्रदेशः स्याद्ग्रान्ण एतद्धि लक्षणम् || इत्यभियुक्ताः । प्रादेशमात्रत्वं मुखपदवाच्यपदार्थ चाऽऽपस्तम्बोऽप्याह-तस्मिश्चतुरो ग्राव्णः प्रादे- शमात्रानूसानूनाननप्रकारानश्मनः सश्सादयन्तीति, स्थवीयासि मुखानीति च । स्थवीयांसि स्थलतराणि । स्थवीयाश्स्यभ्यन्तराणि कृत्वा तानि मुखानीति लाट्यायनद्रा- रायणौ । उपरे प्राणः संमुखान्कृत्वा प्रोक्षतीत्यत्रोपर इत्यधिकरणसप्तमी । अनेनाऽऽप- स्तम्बोक्तमुपरसंमुखत्वं व्यावय॑ते । उपरस्य तु लक्षणामावादर्थलक्षणावायामविस्तारौ । आकारश्चतुरश्रो वर्तुलो वा । संमुखानभिमुखान् । बहुवचनलिकासंभवाच युगपदेव 1 ।