पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०पटलः ] गोपीनाथभट्टकृतज्योत्याव्याख्यासमेतम् ।

रक्षोहणौ वलगहनौ वैष्णवी इत्यभिमन्त्रयते ।

अधिषवणकलके इति शेषः । स्पष्टोऽर्थः ।

रक्षोहत्त्वा बलगहत्प्रोक्षामि वैष्णवमित्यधिषवणचर्म प्रोक्षति ।

अधि उपरि सोमः सूयते कण्ज्यते यस्मिस्तच्च तचर्म च । अभिरितिवचनाभा- वात्प्रोक्षणार्थानामपां संस्कारः । चर्मस्वरूपमाह-

लोहितमानडुहमुपरिष्टाल्लोमाऽऽसेचनवद्यथाऽभिषवायोपाप्तं भवति ।

लोहितं रकम् । अनडुह इदमनडहो विकारो वाऽऽनडुहम् । उपरिष्टा- ल्लोमानि यस्य । आतिच्यते. बहिरानीयते सोमरसो येन तदासेचनं तदस्यास्तीत्या- सेचनवत् । आसेचनवदित्यनेन पुटाकारता गम्यते । यधाऽभिषवायेत्यनेनार्थसिद्धपरि- माणं प्रदर्शितम् । उपाप्तं पर्याप्तम् । उपात्तमिति पाठ उपयुक्तमित्यर्थः । यथाशब्दस्य यावदित्यर्थ उभयत्रापि चर्मविशेषणान्येतानि ।

रक्षोहत्त्वा वलगहत्स्तृणामि वैष्णवमित्यधिषवणफलकयोरास्तृणाति ।

चर्मेति शेषः । चर्मणि विशेषमाहाऽऽपस्तम्बः-यस्मिन्मिभीते तस्याधिषवणचर्म खरं परिकृतं चतुष्पुटमुपरिष्टादासेचनवदिति । अस्यार्थः- यस्मिश्चणि सोमो मित- स्तस्यैकदेशेनाधिषवणचर्म कर्तव्यं तच्च खरं भवति न मृद्कृतम् । परि परितः सम- तभागे कृत्तं छेदितं चतुष्पुटं येषु पुटेषु ग्राणः(वाणः) सायन्ते । अनेन चतसृषु दिक्ष विदिक्षु वा चत्वारः पुटाः कर्तव्या इति गम्यते ।

तस्मिꣳश्चतुरो ग्राव्णः सꣳसादयत्यूर्ध्वसानूनाहननप्रकारानुपरं प्रथिष्ठं मध्ये पञ्चमम् ।

तस्मिन्नास्तृते चर्मणि । यद्यपि प्रावशब्दः केवलपाषाणपरस्तथाऽपि अग्रे स्वरूप- विशेषाभिधानात्कण्डनसाधनीभूत आकारविशिष्टो लोकप्रसिद्धः पाषाणोऽत्र अावश- ब्देन ग्राह्यः । तत्संख्यामाह-चतुर इति । संसादयतीत्यत्रत्यसंशब्दो यथोर्ध्वमानव आसादिता न पतेयुम्तथेत्येतादृशमर्थ सूचयति । तत्र विशेषमाह-उर्ध्व सानूनाहनन- प्रकारानिति । सानु शब्दोऽग्रवाची । अर्वानि सूक्ष्मरूपप्रदेशात्मकानि सानूनि येषां त ऊर्ध्व सानवस्तानू यानिति यावत् । स्थूलप्रदेशो मुखं तदेव कण्डनसाधनम् । आहन्यतेऽनेनेत्याहनन आननाय प्रकारो येषु त आहननप्रकारास्तान् । आहननं कण्डनं तदर्थ विशेषः स्थौल्यरूपः संज्ञार्थ कल्पनीय इत्यर्थः । कण्डनाधिकरणीभूतः - १ह, ज. स. म, ढ, 'पातंभ'।