पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१० सत्याषाढविरचितं श्रौतसूत्रं- [ सप्तमप्रश्न- बौधायनोऽपि -अथास्यैते फलके दीर्घसोमे संनृण्वे भवतोऽसंतृण्णे एकाहे ते संसृष्टे उपदधातीति ।

रक्षोहणौ वलगहनावुपदधामि वैष्णवी इत्यधिषवण फलकाभ्यामुपरवानपिदधाति द्वौ दक्षिणेन द्वावुत्तरेण ।

द्वाम्यां हस्ताम्यां युगपदधिषवणफलकाम्यामुपरवानपिदधाति आच्छादयति । तत्र विशेषः-दावुपरयौ दक्षिणेनाधिषवणफलकेनापिदधाति द्व वुपरवावुत्तरेणाधिषवणफलके- नापिदधाति द्वौ दक्षिणेन द्वावुत्तरेणेति । अनेन द्वयोः प्रमाणं प्रयोजनं च तुल्यमिति गम्यते । तेन काष्ठलामानुरोधेनैकेन फलकेन त्रयाणामपिधानमेकेनैकस्यापिधानमित्यपि कदाचित्स्यात्तन्निवारितं भवति । सकृदेव मन्त्रः । द्विवचनलिकासंभवाच्च । ताभ्या- मुपरवानपिदधातीति तच्छब्दपरामर्शेनैव तयोलीभे पुनरधिषवणफलकाम्यामितिवचनम- नन्तरोक्तौदम्बरत्वादिस्वरूपापेक्षायाः पाक्षिकत्वद्योतनार्थम् । अपिधाने द्वौ दक्षिणेन द्वावुत्तरेणेतिवचनेनोदक्संस्थतयाऽपिधानं नतु प्रासंस्थतयेति गम्यते । एकेन द्वावेकेन द्वावित्येवमुच्यमाने प्रासंस्थताऽपि पक्षे स्यात्सा मा भूदित्येतदर्थमेवं वचनम् । एकेन दक्षिणावपिदधात्येकेनोत्तरावित्येतावतै वोदक्संस्थतासिद्धावे वचनमिदं फलकं दक्षिणमि- दमुत्तरमितिज्ञानार्थं पूर्वमेव चिह्न कर्तव्यमितिज्ञापनार्थम् । दक्षिणनोत्तरेणेति करणार्थक- तृतीयान्ते पदे । अथैने शकुभिः परिणि(ण)हन्तीति बौधायनेन षभिः शङ्कुभिरनवस- पणार्थ स्तम्भनमुक्तं तदपि दृष्टार्थत्वात्कर्तव्यमेव । द्वाम्यां पुरस्तादाम्या पश्चाद्वाभ्यामभि- तोऽनवसर्पणायेति शङ्कुसमावेशनप्रकारोऽप्युक्तस्तेनैव । द्वयोः पुरो द्वौ शङ्क द्वयोः पश्चाव। दक्षिणस्य दक्षिणत एक उत्तरस्योत्तरत एक इत्यर्थः ।

रक्षोहणौ वलगहनौ पर्यूहामि वैष्णवी इत्यौपरवेण पुरीषेण पर्यूहति ।

अधिषवणफलके इति शेषः । उपरवाणामिदमौपरवं तेनौपरवेण पुरोषेण मृदा पार परितः समन्तादूहति वेष्टयतीत्यर्थः । संतृण्णत्वपक्षे पहणक्रियकैव । असंतृण्णत्वपक्षे भिन्नैव । यद्यपि द्रव्यपृथक्त्वेऽम्यावर्तत इति परिभाषासूत्रान्मन्त्रावृत्तिरस्मिन्पक्षे प्राप्ता तथाऽपि मन्त्रस्य द्विवचनलिङ्ग त्वात्सकदेव भवति ।

रक्षोहणौ वलगहनौ परिस्तृणामि वैष्णवी इति दर्भैः परिस्तृणाति ।

अधिषवणफल के इति शेषः । परिस्तरणविषये दर्भताध्यत्वस्यातिप्रतिद्धत्वेनार्थी- देव तसिद्धी दर्भवचनं प्रसूनरहिततृणविशेषसंग्रहार्थमच्छिन्नाग्रत्ववैशिट्यसंग्रहार्थं च । परि परितः समन्तप्रदेश दभैराच्छादयतीत्यर्थः । परितो वेष्टयतीति वाऽर्थः । अत्रापि संतृण्णासंतृण्णत्वभेदेन पूविद्यास्था द्रष्टव्या । प्रादक्षिण्यं परिभाषासिद्धम् । १ ख. संवण्णे।