पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । .७१३ प्रोक्षणम् । अत्राद्भिरितिवचनाभावात्प्रोक्षणार्थीनामपां संस्कारो भवत्येव । दक्षिणस्य हविर्धानस्याग्रेणोपस्तम्भनं स्तोत्रार्थ बर्हिष्टिमुपनिबध्नाति । तथा च बौधायन:--अथ दक्षिणस्य हविर्धानस्याग्रेणोपस्तम्भनं बहिर्मुष्टिमुपनिबध्नाति स्तोत्रेभ्य इति ।

औपरवस्य पुरीषस्याग्रेणोपस्तम्भनं चतुरश्रं खरं करोति यावन्तमाप्तं पात्रेभ्यो मन्यते ।। १९ ।।

इति हिरण्यकेशिसूत्रे सप्तमप्रश्ने षष्ठः पटलः ।

. 1 उपरवाणामिदमापरवं तस्यौपरवस्य पुरीषस्य मृतः । इदं चतरपुरीषव्यावृत्त्यर्थम् । औपरवस्य पुरोषस्येत्यवयवषष्ठी । औपरवपुरीपैकदेशेनेत्यर्थः । तृतीयाथै षष्ठी वा । प्रथमपक्ष औपरवपुरीषैकदेशोऽवश्य स्थापनीयो भवति खरलेपनार्थम् । द्वितीयपक्षे सर्वस्यैवीपरवस्य पुरीषस्य खरकरण एवोपयोगः । लेपनस्य प्रयोजने लौकिकेन पुरी- पेण लेपनम् । येन काष्ठेन शकटमुपष्टम्धं तदअभागे समीप एव चतुरश्रं चतुष्कोण खरसंज्ञक चत्वरं करोति । खरस्य चतुरश्नताऽग्रेऽसश्रोणिव्यवहारात् । तत्प्रमाणमाह- यावन्तमित्यादिना । पात्रेभ्यः सोमसंबन्धिम्य पात्रेभ्यश्चमसेभ्यः परिप्लनाथै चाऽऽप्तमेतावत्परिमिते खरे सर्वसोमपात्रासादनं मतीति निश्चित्य तदनुरोधन करो. तीत्यर्थः । अनेन प्रमाणनियमाभावः सूच्यते । उच्चताया अनुपदेशादनियमः । पुरी- घेण अलमिश्रितेनैव खरः कार्यो दादयीय पुरीषस्य पात्रबुध्नासंलग्नतायै च । इदं जल- मिश्रणमर्थीपत्तिसिद्धम् | हविर्धानप्रास्थूगातः पश्चात्संचरार्थं स्थलमवशिष्य कार्यः । यथाऽग्रेण खर५ संचरो भवतीति सूत्रात्, अग्रेण खरं परीत्य दक्षिणत उपविशतीति ब्रह्मत्वसूत्राच्च । स्पष्टमाहात्रैवाऽऽपस्तम्बः- पुरस्तात्संचर शिनष्टीति । अग्रेणोप- स्तम्भनमित्यत्र दक्षिणस्यैवोपस्थितत्वादुदाइतब्रह्मत्वसूत्रालिङ्गाच ग्रहणम् । सष्टमाहा- त्राऽऽपस्तम्ब:- -एतस्यैव हविर्धानस्याग्रेणोपस्तम्भनमुपरवपाश्मभिश्चतुरभं खरं करोति सोमपात्रेभ्य आप्तं मन्यत इति । इति ओकोपाहश्रीमदमिष्टोमयाजिसाहस्राप्रियुक्तबाजपेययाजिसर्व- तोमुखयाजिद्विषाइसाग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूज- गोपीनाथदीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्य- केशिमूत्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वजनसं- तापक्षामिकायां ज्योत्स्नाख्यायां वृत्तौ सप्तम- प्रश्नस्य षष्ठः पटलः ॥६॥ -