पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९२ ... सत्यापाठविरचितं श्रौतसूत्र- [सप्तमप्रभे- इन्द्रः । करम्भस्य घूषण्वद्गुणरहित इन्द्रः । परिवापलाजानां सरस्वतीभारतीस्थान इन्द्रः । पुरोडाशस्य विन्द्र एवास्ति । इन्द्राय च दधिधर्माय धर्मदुवो वत्समिति पूर्वसूत्रादिन्द्रायेत्यस्यानुवृत्त्यैवेन्द्रसंबन्धलाभ ऐन्द्रपदं किमर्थमिति चेत्सत्यम् । सर्वाणि भवन्तीत्यैन्द्रपदराहित्येन सूत्रे क्रियमाण इन्द्रपदाकाङ्क्षाया नियतत्वाभावेन सर्वस्य संशयग्रस्तत्वानन्वितत्वापत्तेः । नचेन्द्राय च दधिधर्माय धर्मदुषो वत्समित्येतस्मात्पूर्व- मेवैतत्सूत्रं कर्तव्यं तथा सत्येन्द्रपदस्य सार्थक्यमिति वाच्यम् । सर्वाण्यैन्द्राणि भव. न्तीत्येतस्य पूर्व करण इन्द्राय च दधिधर्माय धर्मबो वत्समित्यत्रापि अपाकरोतीत्ये- सदुपादानस्याऽऽवश्यकत्वेन गौरवापत्तेः ।

अग्निवत्युत्तरं परिग्राहं परिगृह्णाति ।

अग्निवतीति सप्तमी द्वितीयार्थे । उत्तरपरिमाविशेषणमनिवदिति । अग्निवत्त यसवस्त्वेत्यस्य तेऽग्निना प्राञ्चोऽनयन्, वसुभिर्दक्षिणा रुदैः प्रत्यञ्चः, मादित्यैरुदञ्च इत्यस्य प्रागग्निना परिसहस्तवनात् । एतेन वेदिकरण तमसोत्यस्यार्थात्पूर्वपरिमाहत्वं प्रदर्शितं भवति ।

न परिगृहीतामप्रोक्षितामधिचरत्यास्तरणात् ।

परिगृहीतामुत्तरपरिग्राहेण परिगृहीतां वेदिमपोक्षितां सती नाधिचरति नाधिति. ष्ठति । आ, आस्तरणात् । परिगृहीतामिति वचनमुत्तरपरिमाहात्पूर्वमधिचरणे निषेधो नेति प्रदर्शयितुम् । आस्तरणादिति वचनात्स्फ्पेन प्रतीची समाष्र्टीत्यारम्प स्तरणान्तमप्रोसिताया अधिचरणनिषेध इति । तेन संमार्थ प्रोक्ष्य वेदि समृज्य स्तरणार्थ प्रोक्ष्य स्तृणातीति सिद्धं भवति । आ, आस्तरणादित्यत्राऽऽभिव्याप्तावे। तेनाप्रोक्षितापा अधिचरणनिषेधः कृत्नस्तरणान्तं भवति । इयं शाखान्तरीया श्रुति- रेवानूद्यते ।

सुत्यार्थानि काष्ठानि माहावेदिकं च बर्हिरुपक्लृप्तं भवति तूष्णीकाभिरद्भिः काष्ठानि वेदिं बर्हिश्च त्रिस्त्रिः प्रोक्षति ।

सुत्यैवार्थः प्रयोजनं येषां तानि सुत्यार्थानि । माहावेद्या इई माहावेदिकं महावैद्या- स्तरणपर्याप्तं बहिश्चोपक्लुप्तं भवति । सुयार्थानि काष्ठानीत्यत्रोपक्लुप्तशब्दस्य वचन- विपरिणामेनान्वय उपक्लृप्तानीति । परिकर्मिभिरिति शेषः । सूयते कण्डयते सोम इति सुत्या, सूयते कण्यते सोमो यस्मिन्कर्मणीति वा सुत्या । संज्ञायां समजनिषद- निपतमनविदषुशीभृमिण इति सूत्रास्त्रीलिङ्गे वाच्ये भावादिरूपेऽर्षे क्यम् । लशकतद्धित इति ककारस्येत्संज्ञायां पकारस्य हलन्त्यमित्यनेनेसंज्ञायां हस्वस्य पिति १ ख. खेबेन्द्र'। २ ख. पा. 'ज्य स्व।