पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ च०पटलः ].गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ६९१ यस्य लोमकर्तनं न कृतं तस्य वृष्णेर्मेषस्य शृङ्गादन्तराऽन्तराले वर्तमानोणीस्तुका ग्राह्येति । निवपनं यथा बीज न्युप्यते क्षेत्रे तद्वक्रिया । निधानं तु स्थापनमेव । आयतनवचनपूर्णास्तु कानिधान उत्तरनाभिनियमो नास्ति किं तु यत्रकुत्रचित्प्रदेश आयतन इत्येतादृशार्थ बोधयितुम् । अग्निपदमग्निर्यत्र स्थाप्यते तादृश आयतनप्रदेशो ग्राह्यो न तु तदितरप्रदेशः । स चोत्तरनाभिरूपस्तदितरो मध्यप्रदेशश्च । शास्त्रान्तरे गाॉकर्मणि च मध्यप्रदेशस्यैवाग्निस्थानत्वोक्तेः । अग्निप्रतिष्ठापनमग्नेः कुलायमसी. त्यादि पूर्णाहुत्यन्तम् । प्रतिष्ठापनस्यैवाङ्गान्येतानि । येन नाव्यवधानं तेन व्यवहि. तेऽपि नाव्यवहितत्ववाधः । पशुबन्धवदान प्रणयतीत्यापस्तम्बः । याजुषहौत्रसत्त्वे याजुषमेवात्र सर्व होत्रम् । मित्रावरुणो देवता यस्याः सा मैत्रावरुणी तस्यै, आमि- क्षाय तादर्थं चतुर्थीयम् । सायदोहायेत्यत्रापि तादर्थे चतुर्थी । आमिक्षार्थों यः सायदोहस्तदमिति वाक्यार्थः । वत्सानपाकरोति मातृभ्यः पृथक्करोति तूष्णीमेव । 1 वत्सापाकरणस्य शाखानिष्पाद्यत्वादादौ शाखाहरणं कर्तव्यम् । क्षेत्रावरुण्या इत्या- मिक्षाविशेषणं देवताविधानार्थम् । शाखाहरणमन्त्रेषु यथार्थमूहः । तप्ते पयसि दध्या- नीय श्रपयित्वा घनीभूतं यदव्यं निष्पद्यते साऽऽमिक्षा | आण्डस्य वा एतद्रूपं यदा. मिक्षेति श्रुतेः । यद्वीभूतं तद्वानिन, रेतो वै वाजिनमिति श्रुतेः ।

इन्द्राय च दधिघर्माय घर्मदुघो वत्सम् ।

इन्द्रायेन्द्रार्थ दधिधर्मो दन्ना साध्यो धर्मो दधिधर्मो दध्ना धर्म इव धर्म इति वा धर्मशब्देन रक्षणविशिष्टा क्रियोच्यते । दन्नो धर्मः क्षरणं यत्रेति वा। योगरूढं पदम्। इदं च विशे- पणं वक्ष्यमाणे दधिधर्षहोमसाधनीभूते यमिन्द्रमा वरुण यमाहुरिति मत्रे देवतानिश्च- यासंभवात्का देवता ग्राह्येत्याकाक्षां निवर्तयितुम् । धर्मो धर्मार्थं पयो यस्या दुखते सा धर्मधुक्तस्या वत्समपाकरोतीत्यर्थः । इदमपि तूष्णीम् । एतदर्थ शाखाहरणं तु समन्त्रमेव वषट्कारप्रदेयत्वाद्दधिधर्मद्रव्यस्य । चकारो दधिग्रहाचर्थकसायदोहार्थ तत्तद्गोम्यस्तत्तद्वत्सापाकरणं कर्तव्यमित्यनुक्तसमुच्चयं प्रदर्शयितुम् । एतदर्थ शाला- हरणं तूष्णीमेव वषट्कारप्रदेयस्वामावात् । यद्यपि शृतातङ्क्यस्य वषट्कारप्रदेयत्व- मस्ति तथाऽपि तस्य मिश्रणोद्देश्यत्वमेव न यागोद्देश्यत्वमतो न दोषः।

सर्वाण्यैन्द्राणि भवन्तीत्येकेषाम् ।

मैत्रावरुण्यामिक्षासानिध्यात्सर्वशब्दो धानादिरूपसवनीयहविःपरम् । श्रामिक्षायाः सवनीयाया या मित्रावरुणदेवता तामपोह्य तत्स्थान इन्द्रस्य देवतात्वं प्रसङ्गादत्रै- वाऽऽमिक्षा सहप्रदेयद्रव्याणां धानादीनां सवनीयायां या देवता इन्द्राय हरिवते घाना निर्वपतीन्द्राय पूषण्वते करम्भर सरस्वत्यै भारत्यै परिवापलानानिन्द्राय पुरोडाशमष्टा- कपालमिति सूत्रेण विधास्यमानास्ता अपोह्य तासां स्थाने चेन्द्रस्य देवतात्वं पक्षे विधीयते । आमिक्षाया मित्रावरुणयोः स्थान इन्द्रः । धानानां हरिवद्गुणरहित