पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ४ च०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६९३ कृति तुगिति तुगागमे सुत्येति रूपम् । एवं च मुत्याशब्देन सुत्याख्यदिवससंबन्धित- कलकर्मग्रहणम् । तेनावभृथोत्तरोत्पन्नानामुदयनीयामिक्षादीनामपि तान्येव काष्ठानीति । मुत्यार्थीनीति विशेषणात्काष्ठानां सुत्यार्थत्वेनैवोपकल्पन, तेषामेवैतत्प्रकारेण प्रोक्षणम् । माहावेदिकमिति बहिर्विशेषणात्तत्र सुत्यार्थत्वस्य नान्वयो विरोधात् । एतेन ज्ञायतेऽ. ग्नीषोमीयार्थं भिन्नान्येव काष्ठानि तेषां नैवैतत्प्रकारेण प्रोक्षणं किंतु नाप्रोक्षितमिन्ध- नमग्नावादध्यादितिधर्मसूत्रेणाप्रोक्षितेन्धनाभ्याधानस्य निषेधाच्छु द्धाभिरद्भिौकिकमेव प्रोक्षणं तूष्णीमेव । उभयत्रापि चकार उपकल्पने प्रोक्षणे चानुक्ततद्दिवाससंबन्धिग्रहला. त्रसमुच्चयार्थः । अपूर्वत्वेऽपि प्राकृत एव क्रम इति दर्शयित पदार्थकीर्तनम् । त्रिस्त्रि- रिति वीप्सा प्रत्येक त्रित्वप्राप्त्यर्था । तूष्णीकाभिरिति गृह्योक्तप्रोक्षणीसंस्कारप्राप्त्य. र्थम् । प्रोक्षणसाधनत्वेनार्थीदेवापां ग्रणे सिद्धेऽद्धिरिति वचनं गृह्योक्तसंस्कारस्य पाक्षिकत्वज्ञापनार्थम् । तेन गृह्योक्तरीत्या संस्कृतामिलौकिकीभिरेव वा प्रोक्षणमिति पक्षद्वयं सिद्धं भवति । तूष्णीकामित्युच्यमाने तूष्णीकामिरहिरन्येन द्रवद्रव्येण वेत्ये- वरूपः प्रोक्षणं वैकल्पिकमित्येवं वाऽपि कदाचिदर्थः संमाव्येत स मा भूदित्येतदर्थं स्पष्टार्थकवाश परित्यज्य ज्ञापनसिद्धविकल्पार्थमद्भिरिति ग्रहणं कृतम् । परस्परवि- रोधाद्धि विकल्पोऽत्रेति ज्ञेयम् । उपक्लृप्तमिति भूतनिर्देशादग्नीषोमोयदिवससंबन्ध्यनु- ष्ठानारम्भात्यागेवोपकल्पनं परिकर्मिभिः कर्तव्यमिति गम्यते । अप्रोक्षितवेद्यधिचरणनि- षेधान्महावेदिदक्षिणश्रोणिसमीपदेशं प्रोक्ष्य तं देशमधिष्ठाय तत्रस्थ एव मन्त्रेण तस्मि. न्देशे वहिरास्तरणं कृत्वाऽग्रिम देशं प्रोक्ष्य तं देशमधिष्ठाय मन्त्रेण तस्मिन्देशे बहि- रास्तरणं कृत्वेत्येवं क्रमेणाऽऽन्तं कर्तव्यमिति द्रष्टव्यम् । अनेन प्रोक्षणस्याप्यत्र प्रत्यगपवर्गता भवति । तूष्णीकामिरनिः काष्ठानि वेदि बहिश्च विनिः प्रोक्षतीत्यत्र पूर्वसूत्रात्सत्यार्थीनि माहावेदिकमित्येतत्पदद्वयमनुवर्तते ।

तूष्णीं बर्हिषा वेदिꣳ स्तृणाति यया दर्शपूर्णमासयोः ।

! तूष्णीमिति वचनं यथा दर्शपूर्णमासयोरित्यनेन देवबहिलांम्रदसमित्यस्य मत्रस्य प्राप्तिः स्यात्सा मा भूदित्येतदर्थम् । यथा दर्शपूर्णमासयोरित्यनेन तृणैरन्तर्धानं प्रत्यगप- वर्गताऽप्रैर्मूलामिच्छादनमनतिद्वनं स्तरणमित्यादयो धर्माः प्राप्यन्ते । बौधायनेनाऽs. स्तावस्य सदोहविर्धानयोश्च बङ्गुलं स्तरणमुक्तं तदप्यविरुद्धत्वादृष्टार्थत्वाच स्वीकर्तव्यमेव ।

आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखेति स्तरणीमेके समामनन्ति ।। १५ ।।

इति हिरण्यकेशिसूत्रे सप्तमप्रश्ने चतुर्थः पटलः ।