पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त ६८२ सत्याषाढविरचितं श्रौतसूत्र- [७सप्तमप्रभ- साद्वादशसु दक्षिणस्यां श्रीण्यां निपातयेच्छेदं विपर्यस्येतरत उपदध्यात्सा दीर्घचतुरस्रा तथा युक्तां संचक्षीतेति । दक्षिणस्माईसादारभ्यापरान्त्यपृष्ठयाया दक्षिणतो द्वादशसु रज्जु निपातयेत् । दक्षिणतरछेई दीर्घत्रिकोणमञ्जप्सा विपर्यस्योत्तरपार्श्व उपदध्यात् । सा षट्त्रिंशत्प्राचिका सप्तविंशतिव्याता दीर्घचतुरना भवति तथा भूतां गणयेत् । सप्त- विशतिषट्त्रिंशतोस्तयोः संसर्गे नव शतानि द्वासप्ततिश्च भवन्ति । अथ याज्ञिकानां सुखबोधार्थ कारिकाः क्रियन्ते- पदैस्तु त्रिविधैर्वेदिः प्रक्रमैर्वाऽपि मीयते । आदौ वही सार्धवेदे सार्धवहौ निशाकरे ॥१॥ सार्धचन्द्रे सार्धचन्द्रेऽनलेऽर्धे चन्द्रकेऽर्धके । कृष्णवर्मनि चार्थे च तथाऽधैं सार्धचन्द्र ॥२॥ सार्धवेदे तथाऽर्धे च चन्द्रेऽर्धे सार्धवाहिके । अध चेति तु पृष्ठयायामकविंशतिशङ्कवः ॥ ३॥ स्युस्तीक्ष्णाग्रा अथ भवेद्रज्ञः सूक्ष्मा दृढा तथा । पदिशमिः प्रोक्ता पार्श्वमानी तु मानतः ॥ ४ ॥ तिर्यमानी षोडशभिर्विशत्याऽक्ष्णा प्रकोर्तिता । आदौ च पञ्चमे श्रोणिदेस्तिथिषु दक्षिणा ॥५॥ एवमेवोत्तरा श्रोणिबुधदेः प्रकीर्तिता । अथ रज्जु पार्श्वमानी पुरस्तात्पश्चिमेऽक्षिणकाम् ॥ ६॥ कृत्वा विहरणं कुर्यान्महावेद्यसयोर्बुधः । अन्त्ये चतुर्दशे चैव महावेदेस्तु दक्षिणः ॥ ७ ॥ असो द्वादशसु प्रोक्त एवमेवोत्तरः स्मृतः । अथ पाशौ विपर्यस्य रज्ज्वा विहृतिरुत्तरा ॥ ८॥ द्वितीये सप्तमे श्रोणिः सदसो दक्षिणा मता । दशस्खथाष्टसु श्रोणिरुत्तरा तस्य कीर्तिता ॥ ९॥ तृतीये दशमे दक्षे त्वौदुम्बर्यवरः पदे। तुर्ये द्वादशके दक्षे प्रशास्तुधिष्ण्यमीरितम् ॥ १० ॥ तदुदग्धोतृधिष्ण्याथै दक्षिणं परिकीर्तितम् । उत्तरे होतृधिष्ण्यार्धसंलग्नं स्यात्तथाऽर्धकम् ॥ ११ ॥ तदुत्तरे वेदसंख्याः शंसिपौत्रादिधिष्ण्यकाः । प्रादेशमात्राः प्रादेशान्तरालाः सर्वधिष्ण्यकाः ॥ १२ ॥ स्थादच्छावाकधिष्ण्यस्य मानं किंचित्ततोऽधिकम् । पञ्चमे च मनी चैव दक्षिणः सदसोऽसकः ॥ १३ ॥