पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८३ ४ च०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । दशस्वथाष्टम् प्रोक्तः सदसस्तूत्तरोंऽसकः । षष्ठे पञ्चदशे धानश्रोणिः पञ्चमु दक्षिणा ॥ १४ ॥ एवमेवोत्तरा श्रोणिहविर्धानस्य कीर्तिता। अष्टमे षोडशे चैव मान लीयं तु दक्षिणे ॥ १५ ॥ तथैवोत्तर आग्नीध्रधिष्ण्यं प्रोक्तं विचक्षणः । प्रदश्यते विहरणप्रकार उमयोरथ ॥ १६ ॥ पार्श्वमानीसूत्रमहावेदिदक्षान्तसूत्रयोः । संपातादुत्तरे मध्योऽङ्गुलेषु रविषु स्मृतः ॥ १७ ॥ मार्जालीयस्य धिष्ण्यस्य तत्र शफू नियोजयेत् । महावेयुत्तरप्रान्तपार्श्वमान्याख्यसूत्रयोः ॥ १८ ॥ संपाताइक्षिणे मध्योऽङ्गुलेषु रविषु स्मृतः । आग्नीघ्रीयस्य धिष्ण्यस्य तत्र शकुं नियोजयेत् ॥ १९ ॥ नवमे च सप्तदशे पदे साधं च दक्षिणे । प्रभञ्जनदिशास्थोपरवमध्यः प्रकीर्तितः ॥२०॥ प्रादेशद्वितये तस्मान्मध्यादुपरवस्य तु | रक्षोधिपतिदिवस्थोपरवमध्यः प्रकीर्तितः ॥ २१॥ दशमे चाष्टादशे च पदे साधं च दक्षिणे । अपराजितदिस्थोपरवमध्यः प्रकीर्तितः ॥ २३ ॥ प्रादेशद्वितये तस्मान्मध्यादुपरवस्य तु । वीतिहोत्रदिशास्थोपरवमध्यः प्रकीर्तितः ॥ २२ ॥ प्रादेशमात्राः प्रादेशान्तराला एत ईरिताः । द्वादशे विशके चैव पञ्चस्वंसस्तु दक्षिणः ॥२४॥ धानस्याथोत्तरांप्तश्चाप्येवमेव प्रकीर्तितः । अथ रज्जु पार्श्वमानी पुरस्तात्पश्चिमेऽक्षिणकाम् ॥ २५ ॥ कृत्वाऽग्रिम विहरणं प्रकर्तव्यं विचक्षणैः । विशके द्वादशे चैव लघुवेद्यास्तु दक्षिणः ॥ २६ ॥ अंसः पञ्चसु संप्रोक्त एवमेवोत्तरः स्मृतः । षष्ठे पश्चदशे चैव लघुवेद्यास्तु दक्षिणा ॥ २७ ॥ श्रोणिः पञ्चस्वथैवं स्याल्लघुवेद्यास्तथोतरा । रज्ज्वा विपर्यस्तया वाऽपि स्याद्विहरणं त्विदम् ॥ २८ ॥ अणीयप्ती पुर इति पक्षोऽथात्र प्रदर्यते । वेदेषु दक्षिणोऽसः स्यात्तथैवोत्तर ईरितः ॥ २९ ॥