पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ च०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६८१ एकशतविधेऽशीत्यङ्गुल इत्यादि । तां शौल्वेन विधिना मीत्वा तत्र तत्र शनि- हन्ति स्पन्द्यावेष्टनार्थम् ।

अक्ष्णया मानेन संपाद्य प्रदक्षिणꣳ स्पन्द्यया पर्यातनोति ।

अक्ष्णया कोणसाधिन्या रज्ज्वा युक्तं मानं तच्छुल्बोक्तप्रकारेणैकरज्जुसाध्य. मनेकराजुसाध्यं वा तेन मानेन वेदिं संपाद्य स्पन्द्या रज्जुस्तया चतुर्यु कोणेषु निहितेषु शकुषु प्रदक्षिणं सर्वतः पर्यातनोति परिवेष्टयतीत्यर्थः । वैदिक्षेत्रमिति शेषः । अक्ष्णयेत्यव्ययम् । अत्रापि प्रादक्षिण्यवाची न भवति तस्य परिभाषयैव सिद्धेः कित्वानुकूल्यवाची । अस्मिन्नर्थे प्रमाणं प्रादर्शितमेव । तेन वेदिप्रान्तप्रदेश- प्रज्ञातत्वानुकूलं यथा भवति तथा दृढं पर्यातनोतीति सिद्धं भवति ।

अन्वातनोति पृष्ठ्याम् ।

यद्यपि वेदिसाधनार्थ पूर्वमेव पृष्ठयासूत्रं दत्तमेव तथाऽपि तस्याः प्रयोजनसत्त्वं सूच्यते । तस्या वेदिविमानोत्तरं विनाशे पुनरपि पृष्ठ्यासूत्रं देयमेव तत्प्रयोननं संतत. मनुपृष्ठ्यं बर्हिः स्तीत्वैति । पृष्ठशब्दो मध्यवाची । पृष्ठे भवा पृष्ठ्या रज्जुः । दिगा. दित्वायत्प्रत्ययः । अक्ष्णया मानेन संपायेत्यनेन विहरणं प्रदर्शितं तत्प्रकाराः शुरुबसूत्रे त्रिकचतुष्कयोः पश्चिका ऽक्ष्णया रज्जुस्ताभिस्त्रिरभ्यस्ताभिरंसौ चतुरभ्यस्ताभिः श्रोणी इति । त्रिकचतुष्कयोस्तिक्वार्श्वमान्योस्ताभिस्त्रिकचतुष्कपश्चिकामिस्त्रिबार. मभ्यस्ताभिरुपरि क्षिप्ताभिरसी भवतः । चतुरिमभ्यस्तामिः श्रोणी भवतः । यथा त्रिका निरभ्यस्ता द्वादशिका चतुष्का त्रिरम्यस्ता षोडाशिका पञ्चिका त्रिरभ्यस्ता विशिका । एताभिस्त्रिभिरम्यस्ताभिादशिकया घोडशिकया विशिकया चांसौ मातंत्र्यौ । एताभिरेव चतुर्भिरभ्यस्ताभिः पञ्चदशिकया विशिकया पञ्चविशिकया च श्रोणी मातव्ये । एवं षड्मी रज्जुभिर्विहरणम् । प्रकारान्तरमुक्कं तत्रैव-द्वादशिकपश्चिकयोस्त्र- योदशिकाऽश्णया रज्जुस्ताभिरंसौ द्विरभ्यस्ताभिः श्रोणी इति । अन्यदपि प्रकारान्तर - मुक्तं तत्रैव-पञ्चदशिकाष्टिकयोः सप्तदशिकाऽक्ष्णया रज्जुस्तामिः श्रोणी द्वादशिक. पञ्चत्रिशिकयोः सप्तत्रिंशिकाऽक्ष्णया रज्जुस्ताभिरं साविति । अन्यदपि प्रकारान्तरमुक्त तत्रैव-ट्विंशिकायामष्टादशेोपसमस्यापरस्मादन्तावादशसु लक्षणं पश्चदशसु लक्षणं पृष्ठयान्तयोरन्तौ नियम्य पश्चदशिकेन दक्षिणाऽपायम्य शकुं निहन्त्येवमुत्तरतस्ते श्रोणी विपर्यस्तयांऽसौ पञ्चदर्शिकेनैवापायम्य द्वादशिक शकुं निहन्त्येवमुत्तरतस्तावसौ तदेकरज्ज्वोक्त विहरणमिति । इदमे करज्ज्दा विहरणम् । यावदायाममित्युक्तस्य मान- स्यैवायं प्रपञ्चः । अन्यच्च तत्रैव-एतावन्ति क्षेयानि वेदिविहरणानि भवन्तीति । छेद- रहितानि एतावन्ति भवन्तीत्यर्थः । अन्यच तत्रैव-अष्टाविंशत्योनपदसहस्र महावे. दिरिति । पदग्रह्ण प्रक्रमस्याप्युपलक्षणम् । संख्यानोपायोऽपि तत्रैव-दक्षिणस्माद- 4 - r -