पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ च०पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ६७३ पवाज्य । इदमुपवाजनमदृष्टार्थम् । ओढासु देवतासूदकमुपवाज्येत्यवभृध उदकोप- वाजनदर्शनात् । स्रवेण धुवाया आज्यमादाय वेदेनोपयम्य प्रजापतये मनवे स्वाहेति प्राञ्चं स्रौवमाघारमाघारयति स्रौवमाघारमाघार्य संमार्गाय संप्रेष्यति । संमृष्टे प्रवरं प्रवृणीत इत्येतावतैव संमार्गवत्तदर्थस्य प्रैपस्यापि प्राप्तौ प्रैषपाठ उत्तरत्र संमृष्ट इत्येकवचनेनाग्नेरेव संमार्गेऽवगतेऽग्निमग्नोत्रिः समृड्डीत्येवं प्रैषः स्यात्स मा भूदित्येतदर्थम् । नन्वेवं संमृष्ट इत्येकवचन विरुध्येतेति चेन । तस्याग्नेरेव संमार्गो न परिधानामितिपक्षान्तरज्ञापनार्थत्वेन विरोधाभावात् । एक वचनस्य जात्यभिप्रायकत्वकल्पना प्रैषपाठस्य व्यर्थत्वापत्तेरेव निरस्ता । एवं च प्रेषपाठः परिधीनामपि संमार्ग बोधयितुं, संमृष्ट इत्येकवचनमग्नरेव संमार्गो न परिधीनामिति बोधयितुमित्येवं पक्षद्वयं सिद्धं भवति । परिधीनां संमार्गाभावपक्षेऽग्निमग्नीत्रिः संमृड्ढोति श्रेषः श्रुतौ सुवेणाऽऽघारमाघार्थ तिनः पराचीराहुतीर्तुत्वेत्यनुक्रमणासंमार्गप्रवरणाविधान एतयोनिवृत्तिः स्यात्सा मा भूदित्येतदर्थमुभयोंविधानम् । सुवाघारो ध्रुवाप्यायनान्तः । प्रवरं प्रवृणीते यथा महापितृयज्ञ इत्येकं सूत्रम् । यथा महापितृयज्ञे सीद होतरित्येता. वान्प्रवर इत्यत्रत्येनैतावच्छब्देन यथाऽऽयहोतृवरणनिवृत्तिः क्रियते तद्वदनापीत्यर्थः । सौद होतरित्युक्त्वेति पुनरनुवादो ध्रुवाया अष्टौ जुह्वां गृह्णातीत्यनेन कालाव्यवधानार्थः। ध्रुवाया इत्यनन्तरमायमिति शेषः । ध्रुवासंबन्ध्याज्यमष्टी, अष्टवारं जुह्वां गृह्णाति उपभृति चतुः, चतुर्वारं गृह्णाति । जुबां ग्रहणेष्वेवाऽऽध्यायनं नोपभृति ग्रहणेषु । ध्रुवायां नावशेषयेत् । पञ्चावत्तिनस्तु दशकृत्वः पञ्चकृत्वश्च यथाक्रम सुचोगुहाति ।

सादयति स्रुचौ होताऽऽदापयति ।

याजुषहौत्रसत्त्वे याजुषरीत्यैव । आदापयतीति पदच्छेदः । णिजन्तमिदम् । अध्न. युमिति शेषः । सौद होतरित्यनेन प्रवरनाक्येने(गे)वमति ज्ञायते होतुरेतावत्पर्यन्तं तिष्ठत्तैव तत्र तिष्ठत एवोपवेशनमिति । नुचाविति देहलोदीपन्यायेनोभयत्रान्वेति । अत्र जुहूपभृतोः नुचोः सादनं तूष्णीमेव धुवासादनोत्तरं तयोः समन्त्रकासादनस्यानु- चितत्वात् ।

घृतवतीमध्वर्यो स्रुचमास्यस्वेत्युच्यमाने जुहूपभृतावादाय सकृदतिक्रान्तस्तिस्रो देवता यजति ।

दक्षिणेति शेषः । तथैवाऽऽपस्तम्बोऽपि पठितवान् । उच्यमान इति वर्तमाननिर्दे- शादेतद्वाक्योच्चारणसमकालं खुचौरादानम् । खुचौ होताऽऽदापयतीत्येतावनैव प्रकृतिप्राप्ते घृतवतीमध्वर्यो स्नु चमास्यस्वेत्युच्यमाने जुहूपभूतोरादाने सिद्धेऽत्र वचनं केवले घृतवती- शब्द एवाऽऽदानमवाप्यापस्तम्बेनोक्तं तद्वारयितुम् । एतेन प्रयानार्थमेव झुगादापन-