पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्रभ- मित्याश्वलायनादीनां मतमपि निरस्तं भवति । प्रतियागमतिक्रमणं वारयितुं सकृतिति-' वचनम् । स्पष्टोऽर्थः । अत्र पञ्चहोतारं वदेद्यनमानः ।

उत्तरतः प्रथमायाः पुरोनुवाक्याꣳ संप्रेष्यति दक्षिणत इतरयोः ।

सकृदतिक्रमणं यागत्रयार्थ विहितं तत्र प्रथमयागकियासंबन्धिपुरानुवाक्यासं!ष- स्याप्यतिक्रमणोत्तरमेव कर्तव्यताप्रसक्ताविदं वचनमुत्तरतः प्रथमायाः पुरोनुवाक्या५ संप्रे- प्यतीति । सकृतिकान्त इति वचनात्सर्वयागोत्तरं प्रत्याक्रमणविधानाच्च सर्वयागार्थ. मतिक्रान्तस्य मध्ये प्रत्याक्रमणासंभवेनार्थादुत्तरयागद्वयार्थ पुरोनुवाक्यासप्रेषयोदक्षिणतः सिद्धाविदं वचनं सर्वयागार्थमतिकान्तस्य मध्ये प्रत्याक्रमणासंभवेऽपि अग्रेणाऽऽहवनीय पुरोनुवाक्यासंप्रेषार्थमुत्तरत आगत्य प्रैष दत्त्वाऽयेणाऽऽहवनीयं दक्षिणतो गत्वाऽऽश्राव- णादि अग्रेणाऽऽहवनीयं पुरोनुवाक्यासप्रैषार्थमृत्तरत आगतस्यापि प्रत्याक्रमण तन्न भवति । येन मार्गेण गतस्य तेनैव मार्गेणाऽऽगमने प्रत्याक्रमणव्यवहारात् । कमु पादविक्षेप इति धातोर्वेदिमुल्लय पादविक्षेप एव शक्तेश्च । नयनेणाऽऽह- वनीयमुत्तरतो गमनमाहवनीयाग्रिमप्रदेशोल्लङ्घनविशिष्टपादविक्षेपरूपं किंतु शुद्धं गमनमेव । अतः सकृतिक्रमणविरोधाभावादुत्तरतो दक्षिणतो वेत्यनियमः स्यात् वारयितुं दक्षिणत इतरयोरिति । उत्तरतो वेदेरुतरतः । प्रथमाया यागक्रि- याया देवताया इति वा । पुरोऽनुवक्ति देवताहानार्थ होतेति पुरोनुवाक्या । ह्वयति वै पुरोनुवाक्ययेति श्रुतेः । पुरो देवतायै यागं प्रवक्तीति वा पुरोनुवाक्या । प्रैवैनं पुरोनुवाक्ययाऽऽहेति श्रुतेः। प्रथमायाः पुरोनुवाक्यां प्रथमायाः पुरोनुवाक्याव- तारमित्यर्थः । अथवा प्रथमायाः पुरोनुवाक्यामित्यनन्तरं वक्तुं होतारमित्यध्याहारः । चतुर्थ्यर्थे वा द्वितीयाऽत्र दृष्टव्या ।

यज्जुह्वामाज्यं तस्यार्थेनाग्निं यजत्यर्धेन सोमम् ।

स्पष्टम् ।

यदुपभृति तज्जुह्वामानीय तेन विष्णुम् ।

तज्जुह्वामानीति वचनं सर्वानयनार्थ बिन्दुमात्रमपि नावशेषयेदित्येतदर्थम् । यज्जुह्वामानीतं तेनेत्यर्थः । तेनेतिवचनं पूर्वसूत्रादर्धेनेत्यस्यानुवृत्याऽर्थेन विष्णोर्या- गोऽनोपप्तदाहुतिरिति शङ्का स्यात्सा मा भूस्किंतु औपभृतेन जुबामानीतेन सर्वेणैव विष्णोर्यागः स्थादित्येतदर्थम् । उपांशयानविकारत्वात्सर्वेषां दब्धिरसीत्यनुमन्त्रणम् । प्रत्यक्तस्थमेतद्यागत्रयम् । तिनः पराचौराहुनी त्वेति श्रुतेः । आहुतीनां होम इति सूत्र बौधायनस्य प्रतीचीरेवता आहुतीः संस्थापयेदिति शालीकिरिति द्वैधात् । पूर्वार्धे मध्ये पश्चादिति कल्पसूत्रे स्पष्टोक्तेश्च । संस्थापनं समापनम् । श्रुतौ द्वैधे . चाऽऽहुति-