पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. 1 ६७२ सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्रश्ने- ल्यप्प्रत्ययो नोपात्तः । अत्रायं यज्ञः ममाग्ने वर्चामापरादाः पृथिवी होता. एतैरा- सन्नमाज्यं यजमानोऽभिमृशति ।

वेदं निधाय सामिधेनीभ्यः संप्रेष्यति नवधेष्मं प्रतिविभज्य सर्वमिध्ममादधाति ।

वेदं निधाय सामिधेनीम्यः संप्रेष्यतौतिक्रमानुवादो वेद्यन्तपरिस्तरणनिवृत्त्यर्थः । होतृषदनकरुपनं तु होत्रैव स्वार्थ कल्पनीयम् । अथवाऽनुवादस्वरसाइन नैव कल्प. नीयं किं तु होतुरुपवेशनकाल एव कल्पनीयमध्वर्युणैव । वेदं निधाय नवधेमं प्रति- विभज्य सामिधेनीम्यः संप्रेष्यतीत्यन्वयः । तत्रापि सामिधेनीभ्य इत्यस्योभयत्रान्वयः सामिधेनीभ्यो न्वधेमं प्रतिविभज्य सामिधेनीभ्यः संप्रेष्यतीति । सामिधेनीभ्य इत्युम. यत्रापि तादर्थ्य एव चतुर्थी । तेन सामिधेन्यथं प्रतिविभज्य सामिधेन्यथं संप्रेष्यती- त्यर्थो भवति । होतारमिति शेषः । सामिधेनीप्रैषात्पूर्व विभागस्त्वदृष्टार्थः । सामिधे. न्यर्थं संप्रेषोऽग्नये समिध्यमानायानुबूहोति । नवधेमं प्रतिविमज्येत्यनेन सामिधेन्योऽत्र नवैवेति गम्यते । ताश्चाग्रे प्रदर्शयिष्यन्ते । सामिधेनीभ्यः प्रतिविभज्येत्यत्र प्रतीतिव. चनात्समो विभागः । तत्र समत्वं विभाग एकैककाष्ठात्मकत्वमेव । अन्यस्यासंभवात् । एवं च नवसु सामिधेनीप्रणवेषु नव काष्ठानि प्रक्षिपति । अवशिष्टानि' षट्काष्ठानि नवमकाष्ठप्रक्षेपेण सहन्धनार्थत्वनैव प्रक्षिपति न तु सामिधनीसंबन्धित्वेन प्रक्षिपति । तत्र द्वे समिधाविन्धनभावनयैव प्रक्षिपति न तु सामिधेनी संबन्धि- भावनयेति तात्पर्यार्थः । अयमर्थः पुनरिध्मशब्दोपादानालभ्यते । अन्यथा तस्य वैयपित्तेः । एतेन षट्स प्रणवेषु द्वे द्वे काष्ठे प्रक्षेपणीये परिधानीयायां त्रीणि सह प्रक्षिपति, अथवा तृतीयषष्ठनवमेषु प्रणवेष्वकैकं प्रक्षिपति, इतरेषु षट्सु द्वे द्वे इति केषांचित्कल्पतं निरस्तम् । प्रकृतिवद्याजमानम् । नास्ति देवाः पितरः । अत्र हौत्रे विशेषमाहाऽऽपस्तम्बः-तिस्त्र अननिरनूक्ता भवन्ति नव वा पराचोरिति । तिस्त्र आद्या ऋचः प्राकृतीः, आश्वलायनोक्ता वा । पराचीरनावृत्ताः प्राकृतारेवेति । याजुष. हौत्रसत्त्व आपस्तम्बोक्तमाश्वलायनोक्तं वा ग्राह्यमिति ज्ञेयम् ।

ओढासु देवतास्वग्निमुपवाज्य स्रुवाघारमाघार्याग्नीत्परिधीꣳश्चाग्निं च त्रिस्त्रिः समृड्ढीति संप्रेष्यति संमृष्टे प्रवरं प्रवृणीते यथा महापितृयज्ञे सीद होतरित्युक्त्वा ।।१२।। ध्रुवाया अष्टौ जुह्वां गृह्णाति चतुरुपभृति ।

ओढासु आवाहितासु होत्रा देवतासु अग्निमुपवाज्य वेदेनाऽऽहवनीयमग्निं त्रिरु- १क.निन।