पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ च० पटलः ] गोपीनाथभट्टकृतज्योत्सान्याख्यासमेतम् । याजाभावान्नोल्मुकोदहनम् । प्रत्यादाय प्रस्तरं परिधी-परिवधातीत्यादि पूर्वाधारसमि- दाधानान्तमस्ति । उत्तराघारसमिदाधानमुभयपक्षेऽपि न । परिधीनां पारहितत्वादेत- स्याभिमश्रणस्य न पुरस्तात्परिदधात्यादित्यो ह्येवोद्यन्पुरस्ताद्रशाश्स्यपहन्तीति श्रुत्या रक्षोपहननरूपकार्यकारित्वसाम्येन परिधिरूपत्वादातिथ्यार्थपरिहिता यथाऽन्यत्रोपयु. ज्यन्ते तयाऽऽतिथ्यायां कृतमभिमन्त्रणमपि अनोपयोगाय मविष्यति । तथा चाभिम- प्रणनिवृत्तिरत्रेति शङ्कां दूरीकर्तुमयभिमन्त्रणवचनम् । अभिमन्व्येति ल्यप्रयोगः कालाव्यवधानार्थः । सूर्यस्त्वेत्यन्यभिमन्त्रणं कृत्वा कालाव्यवायेनैव वीतिहोत्रं स्वेति पूर्वामाघारसमिधमादधाति । आधारसमिवाधानव चनाभावेऽग्न्यभिमन्त्रगोत्तर ध्रुवानुवयोः सादनमेव स्यात, आधारसमिधोऽपीमाधान एव विनियोगः स्याचैतद्वारयितुं पूर्वीमा- धारसमिधमाधायेति । पूर्वामाधारसमिधमाधाय धुवार नुवं च सादयतीत्यनेन क्रमे- गाऽऽपस्तम्बोक्तमन्तर्वेदि विधृतीनिधानं निवार्यते । विधुत्योस्तदवस्थतायामिदमपि लिङ्गम् । यदा बहिरस्तीर्ण तदा विधृती अपि तूष्णी सादनीय एवं परिधयोऽप्यपरि- हिता एव । यदा तु स्तीर्णं तदा विधुनी अपि तदवस्ये एव परिधयः परिहिता एवेति द्रष्टव्यम् । पारधीनां पुनः पुनरादाय प्रयोगे पुनः परिधीनां परिधानं समन्त्रकमेव । पूर्वामाधारसमिधमाधायेत्यत्रत्यस्य पूर्वामिति समिधो विशेषणीभूतस्य शब्दस्य पूर्वी पूर्वदिग्गतामित्यर्थः । तेन स्रौवाधारस्यात्र प्राक्त्वमेव नियतमिति ज्ञापितं भवति । इद चाऽऽघारसमिच्छब्दबलालभ्यते । आधारसमाप्स्यवधिभूता समिताघारसमिदिति ह्याधा- रसपिच्छब्दार्थः । तस्याः पूर्वत्वविशेषणेन पूर्वदिग्गतत्वलाभे यदर्था समित्तस्य कर्म- णोऽपि प्राक्त्वं सिध्यत्येव । पूर्वामित्यस्य प्रथमामित्यर्थस्तु न भवति स्रुवाधारसंबन्धादेव तल्लामे प्रथमत्वविधानस्य व्यर्थत्वापत्तेः । अत एव पूर्वाधारसमिधमाधायेत्येवमपि नोक्तम् । उत्तराधारसमिनिवृत्तिस्तु बुच्यापाराभावादेव । आधारवचनमूर्ध्वतयाऽभ्याधा. नार्थम् । समिद्वचनं पञ्चदशेधमकाष्ठसनातीयत्वव्यावृत्त्यर्थम् । तेन द्विपादेशपरिमित- स्वायत्र न भवति । धुवां खुवं च सादयति तत्तन्मन्त्रेण ·। चकारावाज्यस्थालीमपि सादयति । एता असदन्नितिबहुवचनान्ततेच्छन्दवन्तं मन्त्रमेषाऽसददित्येकवचनान्नैत- च्छन्दवन्तं करोतीत्यर्थः । ता विष्णो इत्यत्रापि तां विष्णो इत्येकवचनान्तः प्रयोगः कर्तव्यः । या एताः सुचः सुकृतस्य लोकेऽसदस्ता विष्णो पाहोत्येकार्थकत्वेनैकत्रोहे प्रदर्शितेऽपरत्र तस्य दर्शितपायत्वात् । विष्णनि स्थेत्यस्य स्थाने विष्वप्ति वैष्ण धाम प्राजापत्यमित्येकवचनान्तप्रयोगविशिष्टनाऽऽज्यं गतमभिमत्रत इत्यर्थः । बहुवचनस्य पूनार्थत्वं स्वीकृत्य बहुवचनान्तप्रयोगविशिष्टस्यैव मन्त्रस्य विनियोग वार- यितुमुभयत्रोहप्रदर्शनम् । सस्रुवामाज्यस्थालीमित्यादिक त्वनिवर्तते । अत एव