पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. सत्यापाढविरचितं श्रौतसूत्रं- [सप्तमप्रश्ने-

त्रिरनूक्तायां प्रच्यवस्य भुवस्पत इति प्राञ्चोऽभिप्रयाय प्रदक्षिणमावर्तन्ते ।

त्रिस्नूक्तायामित्यत्रोपस्थितत्वात्प्रथमायात्रिरनुवचनम् । अत एवावचनं प्रथमाया - मिति स्पष्टमेवापठदापस्तम्बः । अत्र हौत्रमाश्वलायनीयमेव याजुषस्याभावात् ! प्रथमोत्त- मयोनिरनुवचनं सर्वत्र याजुषहौत्ररीत्यैव शस्त्राणि विना शस्त्रविषयकविधेविशेषशास्त्र- त्वेन प्रबलत्वात् । प्राञ्च इति आवर्तन्त इति बहुवचनादध्वर्युब्रमयजमानाः । एतेषामेव प्रकृतकर्मसंबन्धात् । सुब्रह्मण्यस्य तु च्छन्दोगसूत्रेऽनुक्तत्वान्न मन्त्रः । प्राञ्चः प्राङ्मुखाः । शकटेन सह पार्श्वद्वयमभितो गत्वेत्यर्थः । अमिशब्दः पार्श्वद्वयमभित इत्यर्थ बोधयति । आवर्तनेऽपि उत्तरपार्थेऽध्वर्युदक्षिणपार्श्वे ब्रह्मयजमानाविति । प्रया- येत्यत्र प्रशब्दः शकटागमनलक्षकतावैशिष्ट्वं सूचयति । प्रदक्षिणशब्दोऽत्राऽऽनुगुण्य- वाची । अर्थाच्छकटावर्तनानुगुणम् । अन्यथा प्रदक्षिणं यज्ञे कर्माणि करोतीति परिभा- पयैव सिद्धे प्रदक्षिणग्रहणवैयपिचेः । स्वस्त्यापन्य सीत्यन्तो मन्त्रः । अभिप्रयाण. स्थैव मन्त्रः प्रच्यवस्वेति लिङ्गात् । च्यवनं स्वस्थानाचलनम् । एतस्मादेव लिङ्गाच्छ- कटस्थितराज्ञा सहैवाभिप्रयाणमपि ज्ञायते । ब्रह्मयजमानावयूणां मन्त्रः । प्राञ्च इति बहुवचनेन ब्रह्मावर्युकर्तृत्ववद्यजमानकर्तत्वस्याप्यभिप्रयाणकियायां तत्करणीभूतमन्त्रो- चारणे चापि सिद्धिः । स्वस्मिन्यजमानप्रयोगस्तूच्छुष्मो अग्ने यजमानायैधीत्यत्र यथा -- तथाऽनेति द्रष्टव्यम् ।

अपि पन्थामगस्महीत्युत्तरेण राजानं पूर्वावतिक्रामतो यजमानोऽध्वर्युश्च ।

उत्तरेण राजानं राज्ञ उत्तरतोऽदूरे । ब्रह्मव्यावृत्त्यर्थमुभयोर्ग्रहणम् । पूर्वी शक- टस्य प्रतीच्या चालनापूर्वी पूर्वभूती, अति राजानमतीत्य गच्छतः । चकार उभयोः सहभावार्थः । उभयोर्मनः । वस्वित्यन्तस्तस्य ।

प्रज्वलयन्त्यग्नीनाहवनीये वर्षिष्ठमादधाति ।

प्रज्वलयन्तीति बहुवचन परिकर्म्युविजामन्यतमप्राप्त्यर्थम् । वर्षिष्ठं स्थविष्ठम् । इध्ममिति शेषः । आदधातिसाहचर्यात् । प्रज्वलयन्ति ज्वालायुक्तान् सूक्ष्मैरिन्धनैः करोति (कुर्वन्ति) । सभ्यावसथ्यपक्षे तावपि प्रज्वलयन्ति । आहवनीये स्थविष्ठं लौकि- कमिध्ममादधाति प्रतिपतीत्यर्थः । आहवनीयेऽयं विशेष इतराग्न्यपेक्षया द्रष्टव्यः । यात्पर्यन्तं राजाऽऽसन्धामासन्नो भवति तावत्पर्यन्तमिदं प्रज्वलितत्वमग्नीनाम् । एतद- तिक्रमे सर्वप्रायश्चितं होतन्यम् । तदूर्व तु कर्मानुगुण्येन । इदं चाध्वर्युकर्तृकमानीध- कर्तृकं वा ।