पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ३ तृः पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ६४७ अन्तःप्रदेशे पादौ संस्थाप्य शाखे धारयन्नुप शकटगमनानुगुण्येन सर्पति गच्छती- त्यर्थः । अथवेषामन्तरा यस्याः कस्याश्चिदीपाया अन्तराऽन्तर्वर्ती यः प्रदेशस्तं प्रति शाखे विभ्रद्वच्छत्तीति । शकटवाहनं तु लोकप्रसिद्धमेवेति । हरिणी हरिते हरिद्वर्णे । हरिणी स्यान्मृगी हेमप्रतिमा हरिता च येसिकोशात् । एतावता कोमलत्वं सिद्धं भवति । प्रथमयोः पूर्वसवर्णप्राप्तौ तं बाधित्वा नादिचीतिसूत्रस्थनकारस्य दीर्घाजति चेतिसूत्रस्थचकारेणानुवृत्तौ सत्यां पूर्वसवर्णनिषेधे प्राप्ते वा छन्दसौत्यनेन विकल्पेन पूर्वसवर्णदीर्घ एव पुनः स्थाप्यते । तथा च हरिणी इति रूप सूत्रे युक्ततरं भवति । हरिणी इति द्विवचनम् । इदं च शाखाविशेषणम् । हरिणीपदोत्तरं यच्छाखापदं तद्वोबलीवर्दन्यायेन पलाशशाखाशमीशाखातिरिक्तयज्ञियवृक्षशाखापरम् । अन्यथैतस्य शाखापदस्यानन्वयापत्तेः । नन्वेवं पलाशशाखाशमीशाखयोर्ग्रहणं व्यर्थम् । एकैनैव सामान्यशाखाशब्देन तयोलीमादिति चेन्न । तयोर्मुख्यत्वद्योतनार्थत्वेन सार्थक्यात् । ईषामित्यत्रान्तरान्तरेण युक्त इति द्वितीया ।

शकटमन्वारभ्य सोमाय राज्ञे क्रीताय प्रोह्यमाणायानुब्रूहि ब्रह्मन्वाचं यच्छ सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति संप्रेष्यति ।

दक्षिणामीषामन्वारभ्येति बौधायनः । अनुब्रूहीत्ययं प्रैषो होतारं प्रति । अनुब्रूही- स्येतादृशस्य प्रैषस्य बाधकं विना मुख्यहोतारं प्रत्येव दर्शनात् । आश्वलायनेन कर्म- चोदनायां होतारमित्यनेन सामान्यतो होतुरेव कर्तृत्वप्रतिपादनाच्च । एवमन्यत्रापि ज्ञेयम् । अत्र प्रैषत्रयेण होतृब्रह्मसुब्रह्मण्यान्संप्रेष्यतीत्यर्थः । तेन श्रेषत्रयं पृथक्पृथगेव वक्त- व्यम् । एवमन्यत्रापि ज्ञेयम् । ब्रूहोत्यत्र बू इत्यस्य लुतो हिप्रेष्यश्रौषड्यौपडावहा- नामादेरितिपाणिनिमूत्रात् । अविच्छेदेनैव पाठो वा । एकेतिकरणात् । यजुर्वेदेनाध्वर्यु- रिति परिभाषयाऽध्वर्युन होतृब्रह्मसुब्रह्मण्याः । स्वस्मै नाम्ना प्रैषायोगात् , होतृब्रह्म सुब्रह्मण्यानां परस्परनिरूपितप्रेष्यत्वायोगाच्च । सुब्रह्मण्यकर्म लाट्यायनासायणावा- हतु:-क्रीते राजनि सुब्रह्मण्य उत्तरेण सोमवहन गत्वाऽन्तरेणेषे शमीशाखां पलाशशाखां वा सपलाशा पाणौ कृत्वाऽवतिष्ठेताध्वर्युष५ सर्वत्राऽऽकाङ्क्षत्सुब्रह्मण्याया रश्मीन्धार- यञ्छाखया प्रेष्यद्गावौ दक्षिण पूर्व सुब्रह्मण्योमिति त्रिरावयेत्पानि वर्तमाने षट्कृत्वः प्रतीचि पूर्वेण पत्नीशालां विमुक्ते छदिषि शाखामवगृह्य तामेवेषामनूकम्य यथार्थ स्यादिति । अत्र स्वसूत्राविरुद्ध यत्तत्सर्वमप्यनुष्ठेयम् । सर्वैज्योतिष्टोम इति सूत्रात्सर्व- शाखाप्रत्ययमेकं कर्मेति न्यायाच । स्वसूत्रपरसूत्रयोविरोधे स्वसूत्रमेवाऽऽश्रयेत् । स्वशाखापरित्यागे दोषश्रवणात् । सूत्रस्यापि शाखात्वं चरणव्यूहशास्त्रे प्रदर्शितम् । चरणाः शाखाः सूत्राणि च तेषां व्यूहो विविच्य कथनं यस्मिन्मन्थे स ग्रन्थश्चरण- न्यूहाख्यः । तत्र शाखाभेदाः प्रदर्शितास्ते ततो द्रष्टव्याः ।