पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ तृ पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६४९

उपक्लृप्तोऽग्नीषोमीयः समङ्गो वन्धुमान्यथा निरूढपशुबन्धे लोहस्तूपरः श्मश्रुलः स्थूलः पीवा ।। ९ ।। कृष्णश्वेतो लोहितश्वेतो वा तेन कर्णगृहीतेन यजमानो राजानं प्रतीक्षते ।

अग्नीषोमदेवत्यः पशुरुषक्लसो भवति । उपक्लप्त इति भूतनिर्देशादेतद्दिवसा- नुष्ठानारम्भारपूर्वमेवोपकल्पनं कर्तव्यमिति सिद्धं भवति । तत्स्वरूपमाह-समझ इत्यादिना । समङ्गः संपूर्णाङ्गः । बन्धुमा-मातृपितृभ्रातृसखिमानित्यर्थः । अन्वेनं मातेत्यादिमन्त्रवर्णात् । यथा निरूढपशुबन्ध उपक्लुतः पशुरकूटोऽकर्णोऽकाण इत्यादि- सूत्रेण लक्षणान्युक्तानि तथाऽग्नीषोमीयः पशु भवतीत्यर्थः । एतस्मादेव सूत्राच्छाग एवात्र नियतः । जैमिनिनाऽपि षष्ठेऽध्यायेऽष्टमे पादे पशुचोदनायामनियमोऽविशेषादिति सूत्रेणानियम पूर्वपक्षीकृत्य च्छागो वा मन्त्रलिङ्गादिति सूत्रेण च्छाग एव नियत इति सिद्धान्तितम् । छागो वा मन्त्रलिङ्गादित्यत्र पाशब्दः पूर्वपक्षव्यावर्तकः । सूत्रद्वयार्थः स्पष्ट एव । सामान्यस्य विशेष उपसंहारः कार्य इति भावः । उक्तश्च स्मृतावयमु. पसंहारः-

सामान्यविधिरस्पष्टः संह्रियेत विशेषतः । स्पष्टस्य तु विधेर्नैवमुपसंहार इष्यते ।। इति ।

उपसंहारस्तत्रैव यत्र सामान्यवचनानुष्ठानाय विशेषापेक्षा । भवति चानोषोमीर्य पशुमालभेतेतिसामान्यवचनानुष्ठानाय च्छागस्य वपाया मेदस इतिमन्त्रवर्गोपस्थितविशे- षापेक्षा । नतु विशेषवचनत्वमात्रेण सामान्यवचनप्राप्तोपसंहारकत्वम् । तथात्वे न ब्राह्मणं हन्यादितिसामान्यवचनस्यापि नाऽत्रेय हन्यादिति विशेषवचनेनोपसंहारप्रस- गात् । अतः पूर्वोक्तरीत्यैवोपसंहारः । सामान्यविधिरस्पष्ट इत्यत्रास्पष्टत्वमनुष्ठानाय विशेषापेक्षत्वमेवेति ज्ञेयम् । अत्रान्यमपि विशेषमाह-लोह इत्यादिना । लोहो लोहितः । तूपरः शृङ्गरहितः । श्मश्रुलः श्मश्रुणा युक्तः । श्मश्रुण इति पाठेऽप्ययमे वार्यः । अयं पाठो ब्राह्मणानुगुणः । स्थूलो मांसलः । पीवा चिक्कणाङ्गः । कृष्णश्वेतः कृष्णश्वेतवर्णः । लोहितश्वेतो लोहितश्वेतवर्णः । अतूपरोऽप्यापस्तम्बेनानुज्ञातः-लोहस्तू. परो भवत्यतूपरः कृष्णसारङ्गो लोहितसारङ्गो वेति । तेनेत्थंभूतेन कर्णगृहोतेन कणे धृतेन पशुना सह राज्ञोऽभिमुखं गत्वा तमीक्षते । अनि तु मन्थनमारभ्य प्रहरणपर्य- न्तमधृतेनैव पशुना कर्णव्यतिरिक्तप्रदेशे धृतेन वा प्रतीक्षते । यदनावग्निं मथित्वा प्रहरति तेनैवाग्मय आतिथ्यं क्रियत इति श्रुत्या मन्थनप्रभृतिप्रहरणान्तस्य कर्मण आतिथ्यरूपत्वस्योक्तत्वेन तदवसर एव प्रतीक्षणस्य युक्तत्वात् । अग्नीषोमदेवत्यस्य पशोरत्रोपकल्पनाद्वाजातिथ्यार्थत्वमिवारन्यातिथ्यार्थत्वमप्यवश्यं कल्पयितव्यमेवा आध्व- यवे यानमानविधानमध्वर्युसांनिध्यार्थम् ।