पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८६ सत्याषाढविरचितं श्रौतसूत्रं- [६ पञ्चमप्र--

अक्षन्पितरोऽमीमदन्त पितर इति प्रतिपद्यन्ते ।

उत्तरत आगच्छन्ति मदन्तीत्यन्तेन ।

मन्थꣳ होताऽवजिघ्रति ।

हविःशेषात्पृथकृतं मन्यावदानं होताऽवजिप्रति ।

अथाध्वर्युरथ ब्रह्माऽथाऽऽग्नीध्रोऽथ यजमानः ।

तमेव मन्धभागमेतेऽपि क्रमेणावनिघ्रन्ति ।

मन्थꣳ होताऽवघ्रायान्तर्वेदि निनयतीत्येकेषाम् ।

नान्येऽवनिप्रन्ति ।

उदकुम्भमादायाया विष्ठा जनयन्कर्वराणीति त्रिः प्रदक्षिणं परिषिञ्चन्पर्येति ।

बैदिपरितः । सष्टम् ।

निधाय कुम्भं त्रिरपरिषिञ्चन्प्रतिपर्येति ।

गतार्थम् ।

अत्राञ्जनाभ्यञ्जने वासोदानं नमस्कारानुत्थापनीयं प्रवाहणीꣳ सꣳसाधनीं मनस्वतीं पङ्क्तिप्राजापत्याश्च समामनन्ति ।

असाववनेनिक्षेति, अमावस्यवेति, एतानि व इति, नमो वः पितर इति, उत्ति- पत पितरः प्रेतपूर्व इति, परेत पितर इति, यन्तु पितर इति, मनो न्वाहुवामह इति, अक्षन्नमीमदन्तेति, प्रजापत इति, एतैर्यथाविहित कार्यमित्याह ।

यथा पिण्डपितृयज्ञे ।

गतम्

व्यवच्छादयन्ति परिश्रितम् ।

आवरणं निष्काशयन्ति ।

संप्रसारयन्ति परिधीन् ।

यथास्थानं कुर्वन्ति ।

विस्रस्य प्राचीनावीतानि ।

अनुवादोऽयम् । विधत्ते-

यज्ञोपवीतानि कुर्वत आज्यानि हवीꣳषि च विपरिहरन्ति विपरिक्रामन्नृत्विजोऽपबर्हिषावनूयाजौ यजति देवौ

घ.. ज.सं. म.द.नि वि।